SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्र शिष्यः प्राह-रागद्वेषवृद्धिवशतः प्रायश्चित्तवृद्धिरुपलब्धा तथा किं रागद्वेषहानिवशतः प्रायश्चित्तहानिरप्युपलब्धा / आचार्य प्राह-उपलब्धा तथा चैतदेव पृच्छतिजहमन्ने दसमं सेविऊण निग्गच्छए उदसमेणं / तहमन्ने दसमं सेविऊण नवमेण निग्गच्छे // 327 // अहं एवं मन्ये, यथा दशमं प्रायश्चित्तं पाराश्चित्तं प्रतिसेव्य दशमेन पाराञ्चितेन प्रायश्चित्तेन निर्गच्छति / तथा एतदपि मन्ये दशमं पाराश्चित सेवित्वा नवमेन अनवस्थाप्येन प्रायश्चित्तेन निगच्छति शुद्ध्यति / आचार्य आह-सत्यमेतत् / दशमं सेवित्वा दशमेन शुद्ध्यति कदाचिन्नवमेनापि अनया गाथया सर्वेऽधोमुखागमाः सूचिताः। ते चामी-दशमं सेवित्वा मृलेन निर्गच्छति, एवं पाण्मासिकेन पाश्चमासिकेन चातुर्मासिकेन त्रैमासिकेन द्वैमासिकेन मासिकेन च वक्तव्यम् / दशमं सेवित्वा भिन्नमासेन निर्गच्छति / दशमं सेवित्वा विंशत्या रात्रिंदिवैर्निगच्छति दशमं सेवित्वा पंचदशभीरात्रिंदिवैनिर्गच्छति दशमं सेवित्वा दशमीरात्रिंदिवैर्निर्गच्छति दशमं सेवित्वा पंचभीरात्रिंदिवैनिर्गच्छति दशमं सेवित्वा दशमभक्तेन निर्गच्छति, दशमं सेवित्वा अष्टमेन निर्गच्छति, दशमं सेवित्वा षष्ठेन निर्गच्छति, दशमं सेवित्वा चतुर्थेन निर्गच्छति / दशमं सेवित्वा आचाम्लेन निर्गच्छति / दशमं सेवित्वा एकाशनकेन निर्गच्छति / दशमं सेवित्वा पूर्वार्द्धन निर्गच्छति / दशमं सेवित्वा निर्विकृतिकेन निर्गच्छति, तथा अनवस्थाप्यं सेवित्वा अनवस्थाप्येन निर्गच्छति अनवस्थाप्यं सेवित्वा मूलेन निर्गच्छति / एवं यावन्निर्विकृतिकेन निर्गच्छति, / एवं मूलेऽपि नेतव्यम् / यावन्मूलं सेवित्वा निर्विकृतिकेन निर्गच्छति / एवं च्छेदे एवं पाण्मासिके, एवं पाश्चमासिके, एवं चातुर्मासिके, एवं त्रैमासिके, एवं द्वैमासिके, एवं मासिके, एवं भिन्नमासे विंशति रात्रिं For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy