SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie तृतीयो विभागः। श्रीव्यव- हारसूत्रस्य पीठिकानंतरः। // 13 // मंडल्यादिरूपगृहे एव स्थितानि मासिकादिभिः प्रायश्चित्तैः शोध्यन्ते, एतेन द्वितीयो भंग उपदर्शितः / छेयाई होति निग्गमणमित्यस्य व्याख्यानमाह-- तेण परं सरियादी गंतुं सोहिंति बहुतरमलं तु; मलनाणत्तेण भवे, श्रायं च ण जत्तनाणत्तं // 325 // ___ तस्मादनन्तरोदितात् पटात् परं बहुतरमलं पटं सरिदादि, सरिद्नदी, आदिशब्दात् हृदकूपतडागादिपरिग्रहः, तत्रगत्वा शोधयन्ति / एवं साधूनामप्यपराधपदानि च्छेदादिभिः पर्यायमण्डन्यादिरूपात् गृहानिष्काशनेन जिनादयः शोधयन्ति, / मलनाणतेणेत्यादि द्वितीयादिपदेषु यथा यथा मलनानात्वं तथा तथा प्रादंचनं / यत्ननानात्वमपि, / आदश्चनं नाम गोमूत्राजालिण्डिकोखादि यत्नाच्छोटनपिट्टनादिषु प्रयत्नः तन्नानात्वमपि / तथा हि-यथा यथा मलस्योपचयस्तथा तथा बहुतरगोमुत्रादिप्रक्षेपो बहुबहुतराच्छोटनपिट्टनादिषु प्रयत्नस्ततो भवति / मलनानात्वे आदञ्चन यत्ननानात्वमिव साधूनामप्यपराधपदेषु रागद्वेपोपचयवृद्धौ मासादिवृद्धौ मासादिवृद्धिस्तपः क्रियाविशेषवृद्धिश्चेति चरमतृतीयभङ्गव्याख्यानार्थमाहबहुएहिं जलकुंडेहिं बहूणि वत्थाणि काणि वि विसुज्झे।अप्पमलाणि बहूणिवि काणि विसुज्झंति एक्केण कानिचित् वस्त्राणि तथाविधगाढमलानि बहूनि बहुभिर्जलकुटैर्विशुद्ध्यन्ति / एवमपराधपदान्यपि तथाविधानि बहूनि साधूनां बहुभिर्मासैः शुद्धिमासादयन्ति / एतेन चतुर्थभङ्गो व्याख्यातः / तथा कानिचित् अल्पमलानि बहूनि वस्त्राणि एकेन जलकुटेन शुद्धयन्ति / एवं मन्दानुभावकृतानि बहून्यपि साधूनामपराधपदानि एकेन मासेन शुद्धयन्ति / एष तृतीय भंग उपदर्शितः ना॥१३॥ For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy