________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * रागद्वेषाध्यवसायस्थानानि तज्जनितो वा कर्मसंचयः, जलकुट स्थानीयानि मासिकादीनि प्रायश्चित्तानि, तथा हल्पमपराधपद मेकेन मासेन शुद्धयति / ततो गुर्वपराधपदं द्वाभ्यां मासान्यां, गुरुतरमपराधपदं त्रिभिर्मासैस्ततोऽपि गुरुतरं चतुर्भिर्मासैर्यावत् गुरुतरमपराधपदं षड्भिर्मासैः / छयाई होति निग्गमणमिति ये गाढगाढतरादिमलाः पटास्ते गृहानिर्गत्य बहिः सरित्तडागादि गत्वा प्रभूतप्रभूततरैः चारगोमूत्रादिभिर्बहुबहुतरैराच्छोटनपिट्टनादिभिर्महन्महत्तरप्रयत्नैः शुद्धिमासादयन्ति / तथापराधपदान्यपि गाढगाढतराध्यवसायनिर्वर्तितानि च्छेदमूलानवस्थाप्य पाराश्चितैः पर्यायादिभ्यो निःकाशेन शुद्धयन्ति / ततो निर्गमनं निर्गमनतुल्याश्छेदादयो भवन्ति / अथ कथं जलकुटबहिर्निर्गमनतुन्यामासादिच्छेदादय इति अत्राह-एएहिं इत्यादि / एताभ्यामनन्तरोदिताभ्यां द्वाभ्यां स्थापनाभ्यां मासादिच्छेदादिलक्षणाभ्यां दोषवृद्धिस्तीव्रतीव्रतररागद्वेषाध्यवसा यवृद्धिस्तजनिताकर्मोपचयवृद्धिा कल्प्यते, च्छिद्यते, ततो मासादि च्छेदादयो नलकुटनिर्गमनसमानाः / साम्प्रतमेगोत्तरिया घडच्छक्कएणंति व्याख्यानयतिअप्पमलो होइ सुई, कोइ पडो जलकुडेण एक्केण / मलपरिवुड्डीए भवे कुडपरिवुट्ठी उ जा छन्नू॥३२४॥ कोऽपि पटोऽन्पमलः सन् एकेन जलकुटेन शुचिर्भवति शुद्ध्यति / एष प्रथम भङ्ग उक्तः, मलपरिवृद्धौ कुटपरिवृद्धिर्भवति / सा च तावत् यावत् षट् / तुशब्दोऽतिविशेषणार्थः / स चैतद्विशिनष्टि, षद्केन यावत् पटस्य शुद्धिर्गृह एव क्रियते / इयमत्र भावना-बहुमलः पटो द्वाभ्यां जलकुटाभ्यां शुद्धथति / बहुमलतरबिभिजेलकुटेरेवं मलपरिवृद्धया जलकुटपरिवृद्धिस्तावद्वसेया यावत् वहुमलतमः पड्भिर्जलकुटैरेते च गृह एव प्रचाल्यन्ते, एवमपराधपदान्यपि मासिकादीनि साधूनां स्वपर्याय 3 For Private and Personal Use Only