________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव-11 तृतीयो विभागः। हारसूत्रस्य पीठिकाsनंतरः। // 12 // परिज्ञाय अपराधनिष्पन्नं मासकादिभावनिष्पन्नं च द्विमासिकादि यथा विशुद्धयति तथा तद्विशोधिनिमित्तं प्रायश्चित्तं ददति। तत्राध्यवसानेन मासे प्रतिसेविते यद्यप्रतिकुश्चितमालोच यति / ततस्तस्मिन्त्रालोचनायामप्रतिकुश्चति स्वस्थानं मासमेव प्रयच्छन्ति / अथ प्रतिकुञ्चनया आलोचयति / अथवा यानि द्वैमासिकादीनां प्रायश्चित्तानामोणि यानि अध्यवसाय स्थानानि तैर्मासः प्रतिसेवितः / एष द्विमासादिभिर्मासैर्विशोत्स्यतीति जिनाः केवलादिवलतः श्रुतव्यवहारिणो वा गुरूपदेशेनाधिकमपि प्रायश्चित्तं प्रयच्छति / अत्र चार्थे निल्लेवण कुडे इति निर्लेपनकुटदृष्टान्तः / निलेपनो रजकः / कुटो जलभृतो घटः / यथा जलकुटेर्वस्त्राणि रजकः प्रक्षालयति तथापराधपदानि जिनादयो मासादिभिः शोधयन्ति / अथवा निलेपनं लेपस्य मलस्याभावः / कुटो जलकुटः स दृष्टान्तः / अत्र चत्वारो भङ्गाः-एकं वस्त्रमेकेन जलकुटेन निर्लेपनं क्रियते 1, एकवस्त्रमनेकैलकुटैः 2, अनेकानि वस्त्राणि एकेन जलकुटेन 3, अनेकानि वस्त्राणि अनेकजलकुटैः 4 / तत्र प्रथमद्वितीयभङ्गव्याख्यानार्थमाह--- एगुत्तरिया घडच्छ करण च्छेयादि होंति नियमाणं। एएहिं दोसबुढी कप्पिजइ दोहिं ठाणेहिं // 323 // एकोतरिका घटस्य वृद्धिः, घटषद्केन परिसमापयितव्या / इयमत्र भावना-कोऽप्यन्यमलः पट एकेन जलकुटेन शुद्धयति / स गृह एव प्रक्षान्यते, एष प्रथमो भंगः। ततो मलिनतरः कठिनमलो वा पटो द्वाभ्यां कुटाभ्यां शुद्धिमासादयति, सोऽपि गृह एव प्रक्षान्यते / ततोऽपि मलिनतरत्रिभिः कुटैः सोऽपि गृहे प्रक्षाल्यते / एवमेकोतरिका वृद्धिस्तावनेया यावत् कोपि मा नतरः षड्भिर्जलकुटैः शुद्धयति / सोऽपि गृहे एव प्रक्षान्यते / अत्र वस्त्रस्थानीयान्यपराधपदानि मलस्थानीवानि 12 / / For Private and Personal Use Only