SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagersuri Gyarmandir Shri Mahavir Jain Aradhana Kendra www.kabatirth.org त्यादि गमो गृहीतो मासिकं सेवित्वा चरमेण शुद्धयति / इत्यन्तगमः पाद्यन्तग्रहणे मध्यमस्यापि ग्रहणमिति शेषा अपि गमाः सूचिताः / मासिकग्रहणेन द्वैमासिकादीन्यपि / तद्यथा-मासं सेवित्वा मासेन निर्गच्छति तथा मासं सेवित्वा द्वाभ्यां मासाम्यां निर्गच्छति, मासं सेवित्वा त्रिभिर्मासैनिर्गच्छति, मासं सेवित्वा चतुर्भिर्मासैनिर्गच्छति, मासं सेवित्वा पञ्चभिर्मासैनिर्गच्छति, मासं सेवित्वा षड्भिर्मासैनिगच्छति / मासं सेवित्वा च्छेदेन निर्गच्छति, मासं सेवित्वा मूलेन निर्गच्छति / मासं सेवित्वा अनवस्थाप्येन निर्गच्छति, मासं सेवित्वा चरमेण पाराश्चितेन निर्गच्छति, तथा द्वैमासिकं सेवित्वा द्वाभ्यां मासाभ्यां निर्गच्छति / द्वैमासिकं सेवित्वा त्रिभिर्मासनिर्गच्छति एवं यावत् द्वैमासिकं सेवित्वा चरमेण निर्गच्छति, तथा त्रैमासिकं सेवित्वा त्रिभिर्मासैनिर्गच्छति, त्रैमासिकं सेवित्वा चतुर्भिर्मासैनिर्गच्छति / एवं यावत् त्रैमासिकं सेवित्वा चरमेण निर्गच्छति, तथा चातुर्मासिकं सेवित्वा चतुर्भिर्मासैनिर्गच्छति यावच्चरमेण निर्गच्छति / तथा पश्चमासिकं सेवित्वा पञ्चभिर्मासनिर्गच्छति / एवं यावच्चरमेण निर्गच्छति, तथा पाण्मासिकं सेवित्वा पड्भिर्मासैनिगच्छति यावच्चरमेण निर्गच्छति, / छेदं सेवित्वा च्छेदेन निर्गच्छति, यावच्चरमेण निर्गच्छति, मूलं सेवित्वा मूलेन निर्गच्छति यावच्चरमेण, अनवस्थाप्यं सेवित्वा अनवस्थाप्येन निर्गच्छति, अनवस्थाप्यं सेवित्वा चरमेण निर्गच्छति / अत्र शिष्यः प्राह-यस्मिन्नापन्ने यत्तदेव दीयते तदापत्तिसमं दानमुचितं अन्यदृशत्वासेविते यदन्यादृशं दीयते . तत्र को हेतुः / प्राचार्य आह-- जिणनिल्लेवणकुडए मासे अपलिउंचमाणे सहाणं / मासेण विसुज्ज्ञिहिई, तो देई गुरुवएसेणं // 322 // जिनाकेवलिनो जिनग्रहणादवधिमनःपर्यायज्ञानिनः चतुर्दशदशनवपूर्वधरा गृहीताः एते यथावस्थिताः संक्लेशविशोधीः For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy