SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 11 // तपसि दत्ते वदति समर्थोऽहमन्यदपि तपः कर्तुं तदपि मे देहीति तस्मिन् तपोबलिके मूलं पर्याये इति यस्य च्छेदेन छिद्यमानः पर्यायो न पूर्यते स्तोकत्वात् / अथवा च्छेदपर्यायं यो न सम्यक् श्रद्दधाति / यथा कोऽयमर्धजरतीयो न्यायः कियत्पर्यायस्य च्छिद्यते कियन्नेति, च्छिद्यते तहिं मूलत एव च्छिद्यतां / यदि वा न किमपीति, यदि बा वक्ति रत्नाधिकोऽहं बहुकेऽपि परिच्छिन्ने पर्याये अस्ति मे दीर्घः पर्याय इति न किमपि छेत्स्यति, तस्य सर्वस्यापि पर्याये हीनस्य पर्याये श्रद्धानरहितस्य पर्याये गर्वितस्य मूलं, तथा यो बहु प्रायश्चित्तमापनोऽथ च धृतिसंहननाभ्यां दुर्बलत्वात तपःकर्तमसमर्थस्तस्मिन् दुर्बले मूलं, तथायोऽपरिणामत्वात् बूते / यदेतत्तपः पाण्मासिकं युष्माभिर्मे दत्तमेतेनाहं न शुद्ध्यामि प्रायश्चित्तस्य बहुत्वात तस्मिन्नप्यपरिणामे मूलं, तथा यो धृतिदुर्वलतया पुनः पुनः प्रतिसेवते तस्मिनस्थिरे धृत्यवष्टम्भरहिते मूलं, तथाऽबहुश्रुतोऽगीतार्थः / अथवानवस्थाप्यंपाराश्चितं वा आपनस्तस्य वाऽबहुश्रुततया तहानायोग्यता तस्मिन्नप्यबहुश्रुते मूलं दातव्यमिति / साम्प्रतमाचार्यों विशेष दर्शयितुकामो यदेवाधस्तादुक्तं तदेव प्रच्छयन्नाह / / जहमन्ने एगमासियं सेविऊण एगेण सो उनिग्गच्छे। तहमन्ने मासियसेविऊण चरमेण निग्गच्छे।।३२१॥ ___चोदको वक्ति-अहं एवं मन्ये यथा मासिकं परिहारस्थानं सेवित्वा सोऽधिकृतप्रायश्चित्तप्रतिपन्ना एकेन मासेनेति गम्यते निर्गच्छति शुद्ध्यति / तथा आस्तामन्येन द्वैमासिकादिना एतदप्यहं मन्ये, अतिशयज्ञापनार्थ भूयो मन्ये इत्युपादानं मासिकं सेवित्वा चरमेण पाराश्चितेन निर्गच्छति शुद्धयति / एवं चोदकेनोक्ते सत्याचार्य आह-सत्यमेतत् / यथा मासिक सेवित्वा मासेन स निर्गच्छति तथा मासिकं सेवित्वा कदाचिच्चरमेण शुद्धयति / इह मासिकं सेवित्वा मासेन शुद्धयती // 11 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy