________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तं चेव पुठ्वभणियं परतरए णस्थि एगखंधादी। दो जोए अचयंते, वेयावच्चट्या झोसो // 31 // यत्पूर्वमन्यतरके भणितं यथा नास्त्येतत् यत् एगखंधाई एकेन स्कन्धेन एककालं द्वे कापोत्यावुह्येते इति तदेव परतरकेपि सर्व भणनीयम् / ततो द्वो योगो तपःकरण वैयावृत्यलक्षणो युगपदशक्नुवन् संचयितमसंचयितं वा यदापनस्तनिक्षिप्त कृत्वा वैयावृत्यं कुरुते / वैयावृत्यं च कुर्वतो यद्यदापनं स्तोकं बहु वा तस्य सर्वस्यापि वैयावृत्यार्थतया प्रवृत्तत्वात् झोषः परित्यागः कर्तव्यः / तदेवं तपो भणितं यानि यत्र भिन्नमासादीनि मासादीनि वा तपःस्थानानि षट् पश्चेत्यादिलक्षणानि तावन्ति दिनानि च्छेदप्राप्ते च्छेदाः कर्तव्याः / अथ मूलं कीदृशस्य देयमुच्यतेतवतीयमसदहए तवबलिए चेव होइ परियागे / दुब्बल अप्परिणामे अस्थिरअबहुस्सुए मूलं // 320 // यो मासादिकं षण्मासपर्यन्तं तपोऽतीतो व्युत्क्रान्तः / किमुक्तं भवति ? / मासादिना षण्मासपर्यन्तेन तपसा यो न शुद्ध्यति, तपोग्रहणमुपलक्षणं देशच्छेदमपि योऽतीतो देशच्छेदेनापि यो न शुद्ध्यतीति भावः, तस्य मूलं दीयते, इति सर्वत्र सम्बद्ध्यते / तथा असहहिए इति तपसा पापं शुद्ध्यतीति एतद्यो न श्रद्दधाति, तस्मिन्नप्यश्रद्दधाने मूलं अथवा अश्रद्दधानो नाम मिथ्यादृष्टिः, / ततो यो अश्रद्दधान एव सन् व्रतेषु स्थापितः पश्चात्सम्यक्त्वं प्रतिपन्नः सन् सम्यगावृत्तो भवति तस्य मूलं देयं यथा गोविन्दवाचकस्य दत्तमिति, / तव बलिएत्ति तपसा बलिको बलिष्ठोऽसौ तपोबलिकः / किमुक्तं भवति / महतापि तपसा यो न क्लाम्यति, यत्र तत्र स्वल्पे प्रयोजने तपः करिष्यामीति विचिन्त्य प्रतिसेवते, / यदि वा पाण्मासिके For Private and Personal Use Only