________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो |विभागः श्री व्यवहारसत्रस्य पीठिकाऽनंतरः। पञ्चवारान् चतुर्लघुकं / ततः परं वारत्रयं च्छेदस्तदनन्तरं वारत्रयं मूलं, ततः परं वारत्रयमनवस्थाप्यं, ततः एकवारं पाराञ्चितमिति, / अनुद्घातं पूर्वप्रस्थापितं बहतः षद्वारान् गुरुमासिकं दीयते / तदनन्तरं चतुरी वारान् चतुर्गुरुकं / ततः परं वारत्रयं च्छेदस्तदनन्तरं वारत्रयं मूलं, ततः परं वारत्रयमनवस्थाप्यं / तत एकवारं पाराश्चितं एतदेव सुव्यक्तार्थमाहश्रावण्णो इंदिएहिं परतरए झोलणा ततोपरणं। मासलहगाय सत्त उछच्चेव होंति मास गुरु // 317 // चउ लहुगाणं पसागं चउगुरुगाणं तहा चउक्कं च // तत्तो च्छेदादीयं, होइ चउक्कं मुणेयव्वं // 318 // परतरको वैयावृत्यं तु कुर्वन् यदि इन्द्रियादिभिः स्तोकं बहु वा आपद्यते प्रायश्चित्तं ततस्तस्मिन् परतरके ततो वैयावृत्यकरणादारभ्य यावद्वैयावृत्यं करोति तावत् परोपकारीति / स्तोकं बहु वा यदन्यदापद्यते, तस्य सर्वस्य झोषणता परित्यागः। ततो वैयावृत्यसमात्यनन्तरं पूर्वनिक्षिप्तं प्रायश्चित्तमुद्घातं वहतो भूयो भूय आपत्ती मासलघुकाः सप्त भवन्ति दातव्याः, सप्तवारान् लघुमासो दीयते इति भावः / अनुदातं वहतः षद् भवन्ति मासगुरवो देयाः षट् वारान् गुरुनासो दीयते इत्यर्थः / चउलहुमाणमित्यादि उद्घातं वहतः सप्तवारलघुमासिकदानानन्तरं भूयो भूय आपत्तौ चर्तुलघुकानां पञ्चकं दात्तव्यम् / पश्च वारान् चत्वारो मासलघुका दातव्या इत्यर्थः / अनुद्घातं वहतः षड्वारगुरुमामिकादानानन्तरं चतुर्गुरुकाणां चतुष्कं चतुरो वारान् चतुर्गुरुकं देयम् / ततः परमुभयस्यापि च्छेदादि चतुष्कं च्छेदमूलानवस्थाप्प पाराश्चित लक्षणं भवति / पूर्वप्रकारेण दानबुद्धथा ज्ञातव्यं / साम्प्रतं झोषणा ततो परेणं एतस्य व्याख्यानार्थमाह-- For Private and Personal Use Only