________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बहु वान्यदिन्द्रियादिमिः प्रायश्चित्तमापद्यते / तदा सप्तवारं लघुमासिकं दीयते, / तत परं भूयो भूय आपत्तौ चतुर्वारं लघुकं चातुर्मासं / ततः परं च्छेदत्रिक, तदनन्तरं मूलत्रिकं / तदनन्तरं अनवस्थाप्यत्रिकं / तत एकवारं पाराश्चितं / यदि पुनः पूर्वप्रस्थापितमनुद्घातं वहन् स्तोकं बहु वान्यदापद्यते, भूयो भूयस्ततः पञ्चवारान् गुरुमासिकं दीयते / ततः परं त्रीन् वारान् चतुर्गुरुक, ततो वारत्रयं च्छेदस्तदनन्तरं वारत्रयं मूलं ततो वारत्रयमनवस्थाप्यं, तत एकवारं पाराश्चितमेतदेवाहआइत्तरमाइयाणं मासा लहुगुरुगसत्तपंचेव / चउतिगचाउम्मासा तत्तो य चउव्विहो भेओ // 316 // आत्मतरो नाम यस्य वैयावृत्यकरणे लब्धिर्नास्ति, आदिशब्दात् परतरपरिग्रहः आत्मतरादिर्येषां ते आत्मतरादयः आत्मतराः परतराश्चेत्यर्थः। तेषामात्मतरादीनां प्रायश्चित्तदानविधिरुच्यते-तत्रात्मतराणामयमुद्घातं पूर्वप्रस्थापितं वहता सप्तवारान् लघुमासा दीयन्ते / तदनन्तरं चतुरो वारान् चतुर्मासा लघवः, / ततश्चतुर्विधो भेदस्छेदमूलानवस्थाप्य पाराश्चितलक्षणो दातव्यः / अनुद्घातं पूर्वप्रस्थापितं वहां पश्च वारान् गुरुमासा दीयन्ते / तदनन्तरं त्रीन् वारान् गुरवश्चतुर्मासाः / ततो यथोक्तरूपश्चतुर्विधो भेदः / सम्प्रति परतरस्य प्रायश्चित्तदानविधिरभिधीयते / परतरो नाम यस्य वैयावृत्यकरणे | || लब्धिरस्ति न तपसि, ततः स यदा तपः करोति न तदा वैयावृत्यं कर्तुं समर्थ इति / अत्रापि एकस्कन्धेन कापोतीद्वयं वोढुं न शक्यमिति दृष्टान्तो वक्तव्यः / यश्च प्रायश्चित्तं संचयितमसंचयितं वापनस्तत् तु यावद्वैयावृत्यं करोति, तावत् निक्षिप्तं क्रियते, वैयावृत्यं च कुर्वन् यद्यन्यदापद्यते तत् सर्व झोष्यते, / वैयावृत्ये च समाप्ते तत् पूर्वनिक्षिप्त प्रस्थाप्यते, तच्च वहन | यदि भूयो भूयः इन्द्रियादिभिरन्यदापद्यते / तत उद्घातं पूर्वप्रस्थापितं वहतः सप्तवारान् लघुमासिकं दीयते / तदनन्तरं For Private and Personal Use Only