SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग: श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 4 // यदि पूर्वप्रस्थापितमुद्घातं वहन् भूयो भूयोऽन्यदापद्यते प्रायश्चित्तं तदा प्रथमत एव सप्तवारा उद्घातितानां लघूनां मासानां चतुष्का दातव्याः। सप्तवारा लघवः चतुर्मासा देयाः, तदनन्तरं पञ्चवारा लघवः पश्चमासास्तदनन्तरं वारत्रयं च्छेदः,। ततः परं वारत्रिकं मूलं / ततो वारत्रिकमनवस्थाप्यं / तत एकवारं पाराश्चितम् / अथानुद्धातं पूर्वप्रस्थापितं वहन् पुनःपुनरापद्यते प्रायश्चित्तं / तत आदौ पञ्च वारा अनुदाता गुरुवश्चत्वारो मासा दाने भवन्ति / तदनन्तरं त्रीन्वारान् पञ्च मासा गुरुवस्ततो वारत्रयं च्छेदं / तदनन्तरं वारत्रयं मूलं, ततो वारत्रयमनवस्थाप्यं / तत एकवारं पाराश्चितं / यस्त्वन्यतर परतरस्तस्येदं प्रायश्चित्तविधानम्-सत्तरसपनरसेत्यादिपूर्वप्रस्थापितमुद्घातं प्रायश्चित्तं वहन् यदि भूयो भूयः स्तोकं बहु वा अन्यत् प्रायश्चित्तमापद्यते / ततस्तस्य सप्तदश त्रैमासिकानां निक्षेपा भवन्ति / सप्तदशवारं त्रैमासिकं दीयते इति भावः / तदनन्तरं भूयो भूय आपत्तौ सप्तदश निक्षेपा द्वैमासिकानां / तदनन्तरं सप्तदश निक्षेपा मासिकानां तत परं निक्षेपणता निक्षेपणं दानं मिने भिन्नमासस्य विंशतिवारान् / ततः परं वारत्रयं छेद स्तदनन्तरं वारत्रयं मूलं, ततः परं वारत्रयमनवस्थाप्यं, तत एकवारं पाराश्चितं,-अनुद्घातं पूर्वप्रस्थापितं वहन् यदि भूयो भूयः स्तोकं बहु वा प्रायश्चित्तमन्यदापद्यते / तस्य पञ्चदश गुरूणां द्वैमासिकानां निक्षेपा भवन्ति / पञ्चदशवारं द्वैमासिकं गुरु दीयते इत्यर्थः / तत परं निक्षेपणता भिन्नमासानां गुरूणामष्टादशवारान् , ततः परं वारत्रयं च्छेद स्तदनन्तरं वारत्रयं मूलं, ततोऽनवस्थाप्यत्रिकं, ततः एकवारं पाराश्चितमिति उक्तोऽन्यतरः। साम्प्रतमात्मतरस्य प्रायश्चित्तदानमुच्यते-संचयितमसंचयितं वा प्रत्येकमुद्घातमनुद्घातं वा वहन् यदि भूयो भूयः स्तोकं // 6 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy