________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्च गुरुमासाः 3 / ततो वारत्रयं छेदः 3 / तदनन्तरं वारवयं मूलं / ततः परं वारत्रयमनवस्थाप्यं / एवं संचयितेऽप्युद्घातेऽनुदाते वक्तव्यम् / नवरमादिमास्तपोभेदा न वक्तव्याः / किन्तु प्रथमत एव पाण्मासिकं, तदनन्तरं च्छेदत्रिकादि अष्टकापहारादिकं पूर्ववद्वक्तव्यम् / अधुनाचरगमनिका-इह विचित्रा व्याख्या प्रवृत्तिरिति पश्चानुपूर्त्या व्याख्या विधेया / पूर्वप्रस्थापितमुद्घातमनुद्घातं च बहतो यथाक्रमं भिन्न भिन्नमासविषये दानं विंशत्यष्टादशवारान् / किमुक्तं भवति ? पूर्वप्रस्थापितमुद्घातं प्रायश्चित्तं वहतो विंशतिवारा भित्रमासा दातव्याः। अनुद्घातं बहतोऽष्टादश वारा भिन्नमासाः तणपरमित्यादि, ततो भिन्नमासदानात् पश्चानुपूया परं प्रागिति भावार्थः / निक्षेपणता निक्षिप्तता आसीत् विंशत्यष्टादशवारानन्तरं च उद्घातं पूर्वप्रस्थापितं वहतो मासिकानां लघूनां मासिक द्वैत्रैमासिकानां सप्तदशनिक्षेपा भवन्ति / सप्तदशवारं दानं भवतीत्यर्थः / अनुद्घातं पूर्वप्रस्थापितं वहतो मासिकानां निक्षेपाः पञ्चदश भवन्ति / पञ्जदशवारं मासिकानां दानमित्यर्थः / तथा उद्घातितानां चतुष्कमासचतुष्ट्यानि सप्त भवन्ति / अनुदाताः चतुष्काः पञ्च भवन्ति / तथा पश्च मासा लघुकाः पश्च भवन्ति, गुरुकाः पुनः पञ्चकाः पञ्चमासास्त्रय इदमुक्तं भवति ? पूर्वप्रस्थापितमुद्धातं वहतस्त्रिमासदानानन्तरं सप्तवाराश्चत्वारो लघुमाना दातव्यास्तदनन्तरं पश्चवाराः पञ्चमासा लघवः अनुद्यातं पूर्वप्रस्थापितं वहतो गुरुमासत्रिमासदानानन्तरं पञ्चवारा लघवः गुरुवश्चतुमोसा दातव्याः। ततः परं गुरुवः पञ्च मासाखिवारा इति तदेवमेकपामाचायोणां व्याख्यानमुपदशितमन्ये पुनरेवं व्याख्यानयन्ति--- अन्यतरो नाम द्विधा आत्मतरः परतरश्च / तत्रात्मतरस्य प्रायश्चित्तदामविधानमिदम्-सत्तचउक्काउग्धाइयाणमित्यादि, | For Private and Personal Use Only