________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। // 8 // श्री व्यब- स च संचयितमसंचयितं वा प्रायश्चित्तमापन्नोऽथ च तदा गुरूणामन्यो वैधावृत्यकरो न विद्यते / ततस्तदापन्नं प्रायश्चित्तं निहारसूत्रस्य | क्षिप्त क्रियते / एतेन यदक्तमधस्तात निक्षिप्तमिति तद्भावितमवसेयं / गुरूणां वैयावृत्य कायते तच वेयावृत्यं कुर्वन् यदान्द्रिपीठिका- यादिभिरन्यदापद्यते तत्सर्वं झोष्यते यदा तु वैयावृत्य समाप्तं भवति, तदा तत्प्राग निक्षिप्तं प्रायश्चित्तमुरिक्षप्यते / तच्च वहन् नंतरः। यदीन्द्रियादिभिरन्यदापद्यते तदनेन विधिना दातव्यं / सत्त चउक्का उग्घा इयाण पंचेव होंति अणुग्घाया। पंच लहु पंच गुरुगा, गुरुगा पुणपंचगा तिन्नि // 314 // सत्तारस पन्नारस निक्खेवा होति मासियाणं तु / वीसट्रारस भिन्ने तेण परं निक्खिणवयाउ॥३१५॥ सोऽन्यतरः पूर्वप्रस्थापितं प्रायश्चित्तं वहन् यदि स्तोकं बहु उद्घातमनुद्घात वा प्रायश्चित्तस्थानमापनस्ततो यदि पूर्वप्रस्थापितं प्रायश्चित्तमुद्घातस्तत उद्धातो भिन्नमासो दीयते, / यदि पुनरापद्यते तदा भूयोऽपि भिन्नमासदानमेवं भूयो भूय आपत्तौ विंशतिवारान् भिन्नमासा दातव्याः // 20 / / तदनन्तरं सप्तदशवारा लघुमासाः 17 / एवं द्विमासत्रिमासा अपि वक्तव्यास्तदनन्तरमपि भयो भय आपत्ती सप्तवाराश्चतुर्मासाः / ततः परं पञ्चवाराः। पञ्च लघुमासाः 5 / तदनन्तरं | त्रीन्वारान् च्छेदः / ततः परं वारत्रयं मूलं, तदनन्तरं वारत्रयमनवस्थाप्यं, तदनन्तरमेकं वारं पाराश्चितमिति / / अथ तस्य पूर्वस्थापितमनुद्घातितं / ततोऽष्टादश वारा गुरुभिन्नमासा दातव्याः 18 / तदनन्तरं पञ्चदशवारा गुरुमासाः 15 / एवं द्विमासास्त्रिमासा अपि वक्तव्याः / तदनन्तरं पञ्चवाराश्चत्वारो गुरुमासाः / ततोऽपि परं त्रिवाराः // 8 // For Private and Personal Use Only