SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | भिन्नत्यादि पश्चाई भिन्नो नाम तत्कालमरणिनिर्मन्थनेन नवोदितोऽग्निः स यथा महति काष्टादिके प्रक्षिप्ते तद्दन्धुमसमर्थो भवति, शीघ्रं च विध्यायति, स एव श्लक्ष्णकाष्टछगणादिचूणांदिषु स्तोकं प्रक्षिप्यमाणेषु क्रमेण प्रबल उपजायते / | स्कन्धाग्निर्नाम महत्काष्टं प्रज्वन्याग्निरूपतया परिणमितः स महत्यपि काष्टादिके प्रक्षिप्ते तद्दग्धुं समर्थो भवति / प्रबलः | प्रबलतरश्चोपजायते / एवं दुर्बलस्य पमु मासेषु पूर्वप्रस्थापितेषु बहुषु व्यूढेषु षट्सु दिवसेषु शेषीभूतेषु यदि वा षट्सु मासेषु पूर्वस्थापितेषु षट्सु दिवसेषु व्यूढेषु यदन्यत् पाण्मासिकं तपः पृथग् दीयते / ततः सभिन्नाऽग्निरिव विषदिति धृतिसंहननदुर्वलत्वात् / यस्य पुनः पुनः पद्मु मासेषु व्यूढेषु षट्सु दिवसेषु शेषीभूतेषु अन्यदारोप्यते पाण्मासादिकं तपः सधृतिसंहननाभ्यां बलीयानिति न विद्राति न च विषादमुपगच्छति, स्कन्धानिरिव / तथा द्वौ चेटौ, तद्यथा-मासजातश्चतुर्मासजातश्च तत्र यदि मासजातस्य चेटस्य चतुर्मासचेटाहारो दीयते, तदा सोजीर्णेन विद्राति, चतुर्मासजातस्यापि यदि मासजातवदाहारो दीयते, तदा स तेनाहारेण नात्मानं सन्धारयितुमलं / एवं यो दुर्बलस्तस्य यदि बलिष्ठं प्रायश्चित्तं दीयते, तदा स विद्राति दुर्बलत्वात् मासिकचेटकवत् , बलिष्ठस्यापि यदि दुर्बलप्रायश्चित्तं दीयते, तदा स तावता न शुद्धिमासादयतीत्यशुद्धथा विषीदति, / ततो यथा भिन्नानौ स्तोकमिन्धनं स्कंधाग्नौ प्रभूतमिन्धन तथा मासजाते चेटे स्तोकमाहारं, चतुर्मासजाते प्रभूतमाहारं प्रयच्छतो | नरागद्वेषवत्तायोग्यतानुरूपप्रवृत्तेः। तथा दुर्बले बलिष्ठे च यथोक्तरूपं प्रायश्चित्तं ददाना न वयं रागद्वेषवंत इति उक्त उभयतरकः / इदानीं आत्मतरकादयो वक्तव्याः। परमुभयतरसदृशोऽन्यतर इति स एवोत्क्रमेण प्रथमतो भण्यते, / तस्य स्वरूपमिदम्यथा एकेन स्कन्धेन द्वेकापोत्यौ युगपत् वोढुं न शक्नोति तथा सोऽप्यन्यतरकः प्रायश्चित्तवैयावृत्ये युगपत्कर्तुं न शक्नोति / For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy