________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्रीव्यव- हारसूत्रस्य पीठिकान नंतरः। दिवपास्ते झोष्यन्ते पाश्चात्यं पाण्मासिकं परिपूर्ण दीयते, धृतिसंहननबलिष्ठन्वात् ।एवं च षण्मामाः पड्भिर्दिभन्यूनः पूर्वस्थापिताः पाश्चात्याः परिपूर्णाः षण्मासाः ततः सर्वसंकलनया द्वादश मासाः षभिर्दिवसैन्यूना भवन्ति / एषा ज्या प्रस्थापनादानं, नातः परा तपोऽहे प्रायश्चित्ते उत्कृष्टतरा प्रस्थापनास्तीति भावः, अत्रापि सानुग्रहनिरनुग्रहचिन्तां कुर्वन्नाह-छद्दिवसगएत्यादि पूर्वप्रस्थापितानां षण्मासानां षट्सु दिवसेषु गतेषु यदन्यदापन्नं षण्मासादिकं तपस्तदारोप्यते / पूर्वप्रस्थापिताश्च षण्मासास्तेष्वेव षट्सु दिवसेषु गतेषु व्यूढेषु परिसमाप्ताः क्रियन्ते / एतदनुग्रहकृत्स्नम् , यत्पुनः षट्सु मासेषु षड्भिावसैगगतेषु अव्यूढेषु दिवसा शेषा अव्यूढाः सन्ति / अन्यच्च समस्तमपि व्यूढमिति भावः, / अत्रान्तरे अन्यत् पाण्मासिकमापनस्तत्परिपूर्णमारोप्यते / प्राकृताच शेषीभूताः षट् दिवसाः त्यज्यन्ते / एतन्निरनुग्रहकृत्स्नं / इति / चोएइ रागदोसे दुब्बलबलिए व जाणए चक्खू / भिन्ने खंधग्गिम्मिय, मास चउमासिए चेडे / / 313 // परश्चादयति, यूर्य रागद्वेषवन्तस्तथाहि यस्य षलां मासानां षट्सु दिवसेषु शेषीभूतेष्वन्यत् पाण्मासिकमापन्नं षट्सु दिवसेषु परिसमाप्यते / तस्य दुर्वलस्योपरि रागो यतो यूयं जानीथ एष बलिकः सन् सुखं विनयवैयावृत्यं करोति / यस्य पुनः पूर्वप्रस्थापितषण्मासानां पञ्चसु मासेषु चतुर्षिशतौ दिवसेषु व्यूढेषु षद् दिवसाः शेषीभूता झोषिताः॥१॥ अन्यत् पाण्मासिकमारोपितं, तस्य बलिष्ठस्योपरि विद्वेषः / अत्रापि जानीथ यथैष तपःकृशशरीरो नास्माकं शक्नोति वैयावृत्यं कर्तुं तस्माद्दीयतामस्य निरनुग्रहप्रायश्चित्तमिति / एवं भवन्तः कुर्वन्तो नूनं चक्षुर्मेलं कुरुथ / चक्षुर्मेलो नाम यदेकं चक्षुरुन्मीलयति / अपरं निमीलयति, / एवमेकं सानुग्रहप्रायश्चित्तदानेन जीवापयथ, / अपरं निरनुग्रहप्रायश्चित्तदानेन मारयथेति / अत्राचार्य आह For Private and Personal Use Only