SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पिताः षण्मासास्तेषां षड् दिवसा व्यूढास्तदनन्तरमन्यान् षण्मासानापन्नास्ततः पूर्व प्रस्थापितषण्मासानां पञ्चमासाश्चतुर्विंशतिदिनाश्च झोष्यंते, / झोषयित्वा च तत्र पाश्चात्याः षण्मासाः प्रक्षिप्यन्ते / ते च यथा प्रक्षिप्यन्ते यथा पूर्वप्रस्थापितषण्मासाव्यूढदिवसैः सह षण्मासा भवन्ति / एवं पाश्चात्यानामपि षण्मासानां षड् दिवसा झोषिता इति / एतद् धृतिसंहननाभ्यां दुर्बलमपेक्ष्यानुग्रहकृत्स्नमेष मित्रवाचकक्षमाश्रमणानामादेशः / साधुरक्षितगणिक्षमाश्रमणाः पुनरेवं ब्रुवते, छहिं चेवयेत्यादि, पदसु चैव दिवसेषु षण्मासानां प्रक्षेपः / इदमुक्तं भवति?-ये पूर्वप्रस्थापिताः षण्मासास्ते पड्भिर्दिवसैरूनाः परिपूर्णाव्यूढाः शेषाः पद् दिवसास्तिष्ठन्ति / अत्रान्तरे अन्यान् षण्मासानापन्नास्ते षण्मासास्तेष्वेव पट्सु दिवसेषु प्रक्षिप्यन्ते / किमुक्तं भवति ? तेषां पण्णां मासानां षट् दिवसाः प्रायश्चित्तं, शेषं समस्तमपि झोषितं / पूर्वप्रस्थापितषण्मासानामपि पर दिवसाः झोषिताः। एतत् धृतिसंहननदुर्बलमपेक्ष्यानुग्रहकृत्स्नमिति; सम्प्रति निरनुग्रहकृत्स्नमाह| एवं वारस माला छदिवसूणा य जेट्ठपठवणा / बदिवसएऽगुग्गह निरगुग्गह छागप क्खेवो / / 312 // ___ इह निरनुग्रहकृत्स्ने आदेशद्वयं एकस्तावदयमादेशः / पूर्वप्रस्थापितानां षण्मासानां पट् दिवसा व्यूढास्तेषु षट्सु दिवसेषु व्यूढेषु अन्यत् पाण्मासिकमापन्नः / ततः पूर्वप्रस्थापिताः षण्मासास्तेष्वेव पद्सु दिवसेषु व्यूढेष परिसमाप्यन्ते / किमुक्तं भवति ? / ये व्यूढाः पद् दिवसास्ते व्यूढा एव शेषा पञ्च मासाश्चतुर्विशतिदिवसा झोषिताः यत्पुनरन्यत् पाण्मासिकं तत्परिपूर्ण दीयते / एवं षट् मासाः पभिर्दिवसैरधिका भवन्ति / एतत् धृतिसंहननबलिष्ठस्य निरनुग्रहकृत्स्नं द्वितीय आदेशः, पूर्वप्रस्थापितानां षण्मासानां षट् दिवसाः शेषास्तिष्ठन्ति, / अन्यत्समस्तमपि ब्यूढं ततोऽन्यान् पण्मासान् प्राप्तः। ततो ये शेषाः पद् For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy