________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यान्यघस्तनानि सूत्राणि पार्श्वस्थादिगतानि वर्णितानि तान्येकतरलिङ्ग विजढे एकतरलिङ्गपरित्यागे तथाहि पार्श्वस्थादि सूत्राणि भावलिङ्गपरित्यागविषयाणि परपाषण्डप्रतिमासूत्रद्रव्यलिङ्गपरित्यागविषयमितिशब्दो हेतौ यतोऽधस्तनानि सूत्राण्यपरलिङ्गविषयाणि ततोऽयमन्य आरंभःसूत्रस्य भवत्युभय जढे इति उभयलिङ्गपरित्यागविषयः प्रस्तावायातत्वात् / एवमनेन सम्बन्धेनायातस्यास्य व्याख्या-भिक्षुर्गणादपक्रम्य निर्गत्य अवधावेत व्रतपर्यायादवाङ्मुखी पराङ्मुखो भूत्वा गृहस्थपर्याय प्रतिगच्छेत् ततो भावपरावृत्या सइच्छेत् द्वितीयमपि वारं तमेव गणमुपसम्पद्य विहर्तु नस्थिणमित्यादिणमिति खन्वर्थे निपातानामनेकार्थत्वात् नास्ति खलु तस्य कश्चिदपि च्छेदः परिहारो वा / किं सर्वथा न किमपि नेत्याह-नान्यत्र एकस्याः शैक्षिकोपस्थापनायाः / किमुक्तं भवत्येका शैक्षिकोपस्थापनिका भवति मूलं भवतीत्यर्थः / एष सूत्रसंक्षेपार्थः साम्प्रतमेतदेव सूत्र व्याचिख्यासुरपक्रम्येत्यवधावेदिति भेदपर्यायैाख्यानयतिनिग्गमणमवक्कमणं निस्सरणपलायणं च एगट्ठा; लुटण लोहण पलोहण उठाणं चेव एगट्रा॥ निर्गमनमपक्रमणं निस्सरणं पलायनमित्येकार्थाः। लोटनं लुठनं प्रलोटनमवधावनमिति चैकार्थः / तत्रप्रलोटनमिति लुटविलोटने इत्यस्यैव प्रपूर्वस्य पर्यायशब्दैरप्यधिकृत शब्दार्थप्रतीतिरुपजायते / तत्वभेदपर्यायैाख्येति वचनमप्यस्ति ततस्तदुपन्यास इति अथ कैः कारणैरवधावनं कुर्यादित्यवधानकारणान्याहविसओदएणं अहिगरणतो वचइतोव दुक्खसेज्जाए / इह लिंगस्स विवेगं करेज पच्चक्ख परोक्खं // For Private and Personal Use Only