________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः श्री व्यवहारसूत्रस्य पीठिकाऽनंतरः / परित्यागं कुर्यात्मावतः अथवा दुःखशय्यया लक्षणात् / ततोऽयम // 124 // विषयोदयेन अत्र विषयविषयो मोहः परिगृह्यते / विषयेण विषयिणो लक्षणात् / ततोऽयमर्थः विषयविषयमोहोदयेन यदि वा केनापि सह अधिकरणभावतः कलहभावतः अथवा दुःखशय्यया चतुर्विधया त्याजित इति हेतोर्लिङ्गस्य प्रव्रज्याचिह्नस्यरजोहरणस्य विवेकं परित्यागं कुर्यात्कथमित्याह / साधूनां प्रत्यक्ष परोक्षं वा कुत्र कुर्यादित्याहअंतो उवस्सए छड्डुणा उ बहिगामपासे वा / बिइयं गिलाण लोए कियकम्मसरीरमादिसु // उपाश्रयस्यान्तर्मध्ये लिंगस्स छडणा परित्यागः क्रियते यदि वा बहिरुषाश्रयात् / अथवा ग्राममध्ये यदि वा ग्रामस्य पार्श्वे श्रासनप्रदेशेऽथवा तत्रैवाचार्यस्य समीपे इदमवधावन-काले लिङ्गस्यो ज्झनं अपवादतो अवधावनाभावेऽपि भवति / तथा चाह-द्वितीयपदमपवादपदं लिङ्गस्योज्झने ग्लानलोके ग्लानजने शरीरादिषु आदिशब्दादुचारपरिष्ठापनापरिग्रहस्तेषु कतकमणि व्यापार तथा ग्लानस्य शरीरे विश्रामणादिकमुच्चारादि परिष्ठापनादिकं कुर्वन् खरण्टनादिभयाल्लिङ्गस्य विविक्ते प्रदेशे मोचनं भवतीति सम्प्रत्यवधावनेन लिङ्गस्योज्झने विधिविशेषमाह-- उवसामिए परेण, सयं व समुवठिए उवठवणा। तक्खणा चिरकालेण व, दिठंतो अक्खभंगेण // ____ उपाश्रयान्तः प्रभृतिषु येषु स्थानेषु रजोहरणमुक्तं तेषु स्थानेषु तेभ्यः परसिन्वा न्यस्मिन् स्थाने उपशामिते परेणोपशमं नीते स्वयं वा तथाविधानुकूलकर्मोदयतः उपशमं गते ततः पुनरकरणतया तत्क्षणं लिङ्गोज्झनानन्तरं तत्कालं चिरेण वादीघेकालेन गुरुसमीपे समुत्थिते नियमत उपस्थापना कर्तव्या नान्यथा प्रवेशनीयः / आह, यदि तेन न किञ्चिदपि प्रतिसेवितं // 124 // For Private and Personal Use Only