________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie | दिपरलिङ्गकरणे चत्वारो गुरुकाः, / अद्धंसेत्ति अर्धमंसे स्कन्धे दिगम्बर इव यदि वस्त्रस्य करोति तदापि चत्वारो गुरुकाः,।। 'पट्टत्ति यदि गृहस्थ इव कटिपट्टकं बध्नाति तदापि चत्वारो गुरुका:, / लिंगदुवे इति लिङ्गद्विकं गृहिलिङ्गं परपापण्डलिङ्गं च तस्मिन् गृहि लिङ्गे परपाखण्डलिङ्गे च कन्दर्पतः परिगृह्यमाणे प्रत्येकं प्रायश्चित्तं मूलम् / सम्प्रति कालक्खेवो गमणं वा इत्येतद्व्याख्यानार्थमाहअसिवादिकारणेहिं रायदुद्वेवि होज परलिंगं / कालक्खेवनिमित्तं पालवणठ्ठावगमणट्ठा // अशिवं देवताकृत उपद्रवः, आदिशब्दादवमौदर्यादि परिग्रहस्तेषु अशिवादिषु कारणेषु गाथायां तृतीया सप्तम्यर्थे प्राकतत्वात् तथाद्वेषणं द्विष्टं राझिद्विष्टं राजद्विष्टं राज्ञःप्रद्वेष इत्यर्थः। तसिन् वा सति परलिङ्गं ग्राह्यं भवेत् / किमर्थमिति चेदत आह कालेत्यादि यावत्सार्थो लभ्यते तावत् खलु परलिङ्गग्रहणेन कालक्षेपः क्रियतामित्येवं कालक्षेपनिमित्तमथवा न शक्यः खलु सहसा विषयः परित्यक्तुमिति यावद्राज्ञः प्रज्ञापना क्रियते तावद्ाह्यं परलिङ्गमिति प्रज्ञापनार्थ यदि अशिवादिकारणेषु समुपस्थितेप्वनार्यदेशमध्ये गमनमुपजातं तच्चानार्यदेशमध्येन गमनं न परलिङ्गग्रहणमृते शक्यते कर्तुमिति गमनार्थ वा परलिङ्गग्रहणं / अथ कस्य परलिङ्गग्राह्यमित्याशङ्कय भिक्खुगादी इत्येतद्व्याख्यानयति / जंजस्य अच्चियं तस्स पूयणिजं तमास्सिया लिंगं / खीरादिलद्धिजुत्ता गमति तं छन्नसामत्था // यत् भिक्षुकादिगतं लिङ्गं यस्य राज्ञोऽर्चित भावेक्तप्रत्ययो मान्य मित्यर्थः / तत्रार्थितमपि नावश्यं कस्याप्यनतिक्रमणीयं For Private and Personal use only