________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यः खलु पञ्चसु आश्रवेषु हिंसादिषु प्रवृत्तः / तथापि त्रिभिगौरवैऋद्धिरससातलक्षणैः प्रतिबद्धः तथा स्त्रीषु गृहीषु च | प्रतिबद्धः स संक्लिष्टः स संसक्तो ज्ञातव्यः / अस्य चासंक्लिष्टस्य प्रायश्चित्तविधिर्देशतः पार्श्वस्थस्येव वेदितव्यः भिक्खू य गणाओ अबक्कम्म पर पासंडपडिम उवसंपजित्ताणं विहरिजा, सेय इच्छेना दोचं पि तमेव उवसंपजित्ताणं विहरित्तए नस्थिणं तस्स तप्पइयं कइ छेदे वा परिहारे वा नबत्थ एमाए आलोयणाए" (सू. 31.) भिक्खूय गणातो अवकमेत्यादि अथास्य सूत्रस्य का सम्बन्ध इत्यत आहदेसेण अवकंता सव्वेणं चेव भावलिंगाओ। इति समुदिता उसुत्ता इणमन्नं दब्वतो विगते // द्रव्यलिङ्गमधिकृत्य देशेनापकान्ताभावलिङ्गतो भावलिङ्गमधिकृत्य सर्वेण सर्वात्मनापक्रान्ताः पार्श्वस्थादय इति / एवमन्यनन्तरसूत्राणि समुदितानि सम्यक्प्रतिपादितानि, इदानीमधिकृत्यमन्यत्सूत्रं द्रव्यतो द्रव्यलिङ्गेन विगते वियुक्ते द्रव्यलिङ्गवियुक्तविषयमिति भावः / अनेन सम्बन्धेनायातस्यास्य व्याख्या-भिक्षुः प्रागुक्तशब्दार्थश्वशब्दोऽनुक्तसमुच्चयार्थः / स चैतत् समुच्चिनोति रागद्वेषादिना कारणेन गणादपक्रम्य निर्गत्य परपाखण्डप्रतिमा परपाषण्डलिङ्गमुपसम्पद्य विहरेत् / विहृत्य च कारणे समाप्ते द्वितीयमपि वारं तमेव गणमुपसम्पद्य विहर्तुमिच्छेत् / तस्य तथोपसम्पद्यमानस्य नास्ति कश्चित् च्छेदो वा परिहारो वा उपलक्षणमेतत् / अन्यदपि प्रायश्चित्तं न किमप्यस्ति कारणतः परलिङ्गप्रतिपत्तेः प्रतिपचावपि सम्यग् यतनाकरणात् / किं सर्वथा न किमपि नेत्याह-नान्यत्र एकाया मालोचनिकायाः अन्यत्र शब्दः परिवर्जनाओं यथा | भीमार्जुनाभ्यामन्यत्र सर्वे योद्धार इत्यादि ततोऽयमर्थः / एकामालोचना मुक्त्वा आलोचना पुनर्भवत्येवेतिभावः, एष सूत्र For Private and Personal Use Only