________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyanmandie यदुक्तं ' गुरुसम्मुखो वलते' इति तत् सविशेष विवृणोति / जह उ बइलो बलवं भंजति समिलं तु सोवि एमेव / गुरुवयणं अकरेंतो वलाइ कुणतीच उस्सोढुं॥ यथा बलवान् बलीवर्दः प्रेरितः सन् दुःशीलतया संमुखं ब्यावर्तमानः समिला भनक्ति / एवमेव अनेनैव प्रकारेण सोऽप्यवसनो गुरुवचनमकुर्वन् सम्मुखो बलते न पुनःकरोति, ततः कार्यकरो वा उत्साह्य उतशब्दोऽवनिषेधार्थे असोढा इत्यर्थः। किमुक्तं भवति ? गुरुसंमुखं किञ्चिदनिष्टमुक्त्वा रुपन् करोतीति उक्तो देशतोऽवसन्नः / सर्वतोऽवसनमाहउउबद्धपीढफलगं ओसन्नं संजयं वियाणाहि / ठवियगरइयगभोइ एमेया पडिवत्तितो // यः पक्षस्याभ्यन्तरे पीढफलकादीनां बन्धनानि मुक्त्वा प्रत्युपेक्षणां न करोति यो वा नित्यावस्तृसंस्तारकः सोऽबद्धपीठफलकः तं संयतं सर्वतोऽवसन विजानीहि / तथा यः स्थापितकभोजी स्थापनादोषदुष्टप्राभृतिका भोजी रचितकं नाम काश्यपात्रादिषुपटादिषु वा यदशनादिदेयबुद्ध्या वैविक्क्येन स्थापितं तद्भुते इत्येवं शीलो रचितकभोजी, तमपि सर्वतोऽवसत्रं जानीहि / एवममुना प्रकारेण एताः सर्वतोऽवसन्नविषये प्रतिपत्तयो वेदितव्याः / अधुना प्रायश्चित्तविधिमाह-- सामायारी वितहं श्रोसन्नो जं च पावए जत्थ / संसत्तो च अलंदो नडरूवी एलगो चेव // सामाचारी ज्ञानादि सामाचारी 'काले विणए' इत्यादि रूपां यदि वा सूत्रमण्डल्यर्थ मण्डल्यादिगतां सामाचारी वितथा कुर्वन् यथास्थाने यत् प्रायश्चित्वं प्रामोति, तत्र तस्य स्वस्थाननिष्पनं प्रायश्चित्चमिति गतमवसमसूत्रम् / सम्प्रति For Private and Personal use only