________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकानंतर। // 11 // हीनं हीनकार्योत्सर्गादिकरणात् अतिरिक्तं वा अनुप्रेक्षार्थमधिकतरकायोत्सर्गकरणात् / अथवा यदेवसिके आवश्यके कर्तव्यं तत् || तृतीयो रात्रिके करोति, रात्रिके कर्तव्यं देवसिके / तथा स्वाध्यायं सूत्रपौरुषीलक्षणं अर्थपौरुषीलक्षणं वा कुरुध्वामिति गुरुणोक्ते गुरुसं विभागः मुखीभूय किश्चिदनिष्ठं जल्पित्वा अविप्रियेण करोति न करोति वा, सर्वथा विपरीतं वा करोति, / कालिकमुत्कालिकवेलायामुत्कालिक वा कालवेलायां, प्रतिलेखनामपि वस्त्रादीनामावर्तनादिमिरूनामतिरिक्तां वा विपरीतां वा दोषैर्वा संसक्तां करोति / तथा ध्यानं धर्मध्यानं शुक्लध्यानं वा यथाकालं न ध्यायति तथा भिक्षां न हिण्डते, गुरुणा वा भिक्षां नियुक्तो गुरुसम्मुखं किश्चिदनिष्टं जन्पित्वा हिण्डते, तथा भक्तार्थ भक्तविषयं प्रयोजनं सम्यग् न करोति, किमुक्तं भवति न मण्डल्यां समुद्दिशति, / काकशृगालादिभक्षितं वा करोति, अन्ये तु व्याचक्षते,। अभत्तठत्ति अभक्तार्थग्रहणं सकलप्रत्याख्यानोपलक्षणं तत्रायमर्थः प्रत्याख्यानं न करोति / गुरुणा वा भणितो गुरुसम्मुखं किश्चिदनिष्टमुक्त्वा करोति, / आगमनेनैपेधिकीं न करोति निर्गमने आवश्यकी, स्थाने ऊर्ध्वस्थाने निषदने उपवेशने स्वगवर्तने शयने एतेषु क्रियमाणेषु न प्रत्युपेक्षणं करोति, नापि प्रमाजेनं करोति वा प्रत्युपेक्षणप्रमार्जने दोषदुष्टे वा करोति, साम्प्रतमावश्यकद्वारं व्याख्यानयति-- श्रावस्सयं श्रणिययंकरेइ हीणातिरित्तविवरीयं / गुरुवयणेणनियोगे, वलाइ ईणमो उ ओसन्नो // आवश्यकमनियतम नियतकालं यदि वा हीनमथवातिरिक्तं विपरीतं वा करोति, गुरुराचार्यस्तस्य वचनं गुरुवचनं तेन नियोगो व्यापारणं तस्मिन् सति संमुखो वलति / किमुक्तं भवति ? गुरुणा भिक्षादिषु नियुक्तः सन् गुरुसम्मुखमेव किञ्चिदनिष्टं भाषमाणो वलते, न गुरुवचस्तथैवानुतिष्ठति / एष देशतोऽवपन्नः अत्र प्रायश्चित्तविधिः पार्श्वस्थस्येवानुसरणीयः। 118 // For Private and Personal Use Only