SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobarth.org Acharya Shri Karlssagarsuri Gyarmandie णेपि ह्युद्गमादिदोषपरिशुद्धमिति कृत्वा गृह्यते / सा च दोषशुद्धिरुभयत्राप्यविशिष्टेति तहय नीतिएसुत्ति तथा नित्येषु नित्यवासेषु प्ररूपयति / यथा नित्यवासेषु यद्युद्गमोत्पादनैषणा शुद्धं लम्यते भक्तपानादि ततस्तत्र को दोषः प्रत्युतदीर्घकालमेकक्षेत्रे वसतां सूत्रार्थादयः प्रभूता भवन्ति, तथा 'सुन्नत्ति' यापकरणं न केनापि हियते ततः शून्यायां वसतौ क्रियमाणायां को दोषः / अथोत्सङ्घटनेनोपहन्यते तच्च चित्तस्योपधिः क उपघातः / अथाकप्पियत्ति अकल्पिको नामागीतार्थः तद्विषये ब्रूते / यथा अकल्पिकेन प्रथमशैक्षकरूपेण शुद्धमज्ञातोञ्छ वस्त्रपात्राद्यानीतं किं न भुज्यते / तस्याज्ञातोम्छतया विशेषतः | परिभोगार्हत्वात् / संभोए इति तथा संभोगे ब्रूते / यथा सर्वे पञ्चमहाव्रतधारिणः साधवः संभोगिका एव युक्ता ना संभोगिकाः इति / / साम्प्रतमकल्पिकोवेति विवृणोतिकिंवा अकप्पिएणं गहियं फासुयं तु होइ उ अभोजं / अन्ना उच्छं को वा होइ गुणो कप्पिए गहिए / किंवा केन वा कारणेन अकल्पिकेन अगीतार्थेन गृहीतं प्रासुकमज्ञातोञ्छमपि अभोज्यमपरिभोक्तव्यं भवति / को वा कल्पिकेन / अत्र गाथायां सप्तमी तृतीयार्थे गृहीतो गुणो भवति नैव कश्चित् उभयत्रापि शुद्धत्वाविशेषात् / अधुना संभोए इति व्याख्यानयतिपञ्चमहव्वयधारी समणा सव्वेवि किं न भुंजंति / इयचरणवितहवादी, एत्तो वोच्छं गतीमुं तु // पञ्चमहाव्रतधारिणः सर्वे श्रमणाः किं नैकत्र भुञ्जते किन्नाविशेषेण सर्वे संभोगिका भवन्ति येनैके सांभोगिकाः क्रियन्ते For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy