________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हस्तगताः पादगता नखाः प्रवृद्धा दन्तैश्छेत्तच्या / न नखरदनने, नखरदनं हि ध्रियमाणमधिकरणं भवति तथा अलिसमिति पात्रमलितं कर्तव्यम् , न पात्रं लेपनीयमिति भावः / पात्रलेपनेन बहुसंयमदोषसम्भवात् / ' हरिय ठिय' चि हरितप्रतिष्ठितं भक्तपानादिग्राह्यं तद्रहणे हि तेषां हरितकायजीवानां भारापहारः कृतो भवति / 'पमजणा य नितस्से 'त्ति यदि च्छन्ने जीवदयानिमित्तं प्रमार्जना क्रियते ततो बहिरप्यच्छन्ने क्रियतां जीवदयापरिपालनरूपस्य निमित्तस्योभयत्रापि संभवात् / अक्षरघटना त्ववेम्-'नितस्स निर्गच्छतःप्रमार्जना भवतु यथा वसतेरन्तरिति / एवं यथाच्छन्देन चरणेषु च प्ररूपणानुपातिनी अनुसारिणी अननुपातिनी च क्रियते / अथ किं स्वरूपानुपातिनीत्यनुपातिन्यननुपातिन्योः स्वरूपमाह | अणुवाइत्ती नजइ जुत्तीपडियं खुभासए एसो। जं पुण सुत्तावेयं तं होति अणणुवातित्ति // यद्भाषमाणः स यथाच्छन्दो ज्ञायते यथा खलु निश्चितं युक्तिसङ्गमेष भाषते तदनुपाति प्ररूपणं यथा यैव मुखपोतिका सैव प्रतिलेखनिकास्त्वित्यादि यत्तु पुनर्भाष्यमाणं सूत्रापेतं सूत्रपरिभ्रष्टं प्रतिभासते तद्भवत्यननुपाति / यथा चोलपट्टः पटलानि क्रियतां षट्पदिकापतनसम्भवतो युक्त्यसङ्गततया प्रतिभासमानत्वात् तत्र चरणे प्ररूपणमनुपात्यननुपाति चोक्तमिदं चान्यत् दृष्टव्यम् / / तदेवाहसागारियादिपलियंक निसेजा सेवणा य गिहिमत्तो। निग्गंथ चिठणाई पडिसेहो मासकप्पस्स // सागारिकः शय्यातरस्ताद्विपये ब्रूते तथा शय्यातरपिण्डे गृह्यमाणेनास्ति दोषः प्रत्युतगुणो वसतिदानतो भक्तपानादि For Private and Personal Use Only