________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir व्युत्पत्तिश्च यथाच्छन्दशब्दस्य प्रागेवोपदर्शिता उत्सूत्रमित्युक्तमत उत्सूत्रं व्याख्यानयतिउस्सुत्तमणुवदिठं सच्छंदविगप्पियं अणणुवादी। परतत्तिय पवित्तेतितणे य एसो अहाच्छंदो // उत्सूत्रं नाम यत्तीर्थङ्करादिभिरनुपदिष्टं तत्र या सूरिपरम्परागता समाचारी / यथा नागिला रजोहरणमूर्ध्वमुखं कृत्वा कायोत्सर्ग कुर्वन्ति / वारणानां वन्दनके कथमपीत्युच्यते इत्यादि साप्यनेपाङ्गेषु नोपदिष्टेत्यनुपदिष्टं शङ्केत ततोऽनुपदिष्टमाहसच्छन्देन स्वाभिप्रायेन विकल्पितं रचितं स्वेच्छाकल्पितमित्यर्थः / अत एवाननुपाति सिद्धान्तेन सहापटमानकं न केवलमुत्सूत्रमाचरन् प्रज्ञापयश्च यथाच्छन्दः किन्तु यः परतत्तिषु गृहस्थप्रयोजनेषु करणकारणानुमतिभिः प्रवृत्तः परतप्तिप्रवृत्तः / तथा ति तिणो नाम यः स्वरूपेऽपि केनचित्साधुनापराद्धेऽनवरतं पुनः पुनस्तं रुषमास्तेऽयमेवं रूपो यथाच्छन्दः तथासच्छंदमतिविगप्पिय किं ची सुखसाय विगइ पडिबद्धो। तिहिं गारवेहिं मजति तं जाणाही प्रहाच्छंद।। ___ स्वच्छन्दमतिविकल्पितं किश्चित्कृत्वा तल्लोकाय प्रज्ञापयति / ततः प्रज्ञापनगुणेन लोकाद्विकृतीर्लभते / ताश्च विकृती: परिभुञ्जानः स्वसुखमासादयति, तेन च सुखासादनेन तत्रैव रतिमातिष्ठति तथा चाह-सुखस्वादने सुखास्वादे विकृतौ च प्रतिबद्धः / तथा तेन स्वच्छन्दः मतिविकल्पितप्रज्ञापनेन लोकपूज्यो भवति / अभिष्टरसांचाहारान् प्रतिलभते बसत्यादिकं च विशिष्टमतः स पात्मानमन्येभ्यो बहुमन्यते / तथा चाह-त्रिभिगौरवैऋद्धिरससातलक्षणैर्मावति य एवंभूतस्तं यथाच्छन्दं संजानीहि / इह उत्सूत्रं प्ररूपयन् यथाच्छन्द उच्यते तत उत्सूत्रप्ररूपणामेव भेदतः प्ररूपयति For Private and Personal Use Only