________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग: श्री व्यवहारसूत्रस्य पीठिकानंतर। // 112 // ऽप्यधिकृतः संविनो जनः संविनानां मध्ये भगवतप्रसादत उत्कृष्टैराहारैः पोषमुपागतस्ततः सुखितः सन् स्मारणामसहमानस्तया त्याजितः पार्श्वस्थविहारमुपपद्यते / तत्र च स्थितः पार्श्वस्थ इति कृत्वा श्राद्धादिभिर्नाद्रियते केवलं लोकत आक्रोशमवामोति / यथा यं धिक् शिथिलो जात इति / ततः संविनानां पूजां सत्कारं च संस्मरन् तमेवात्मीयं गणं पुनरेति समागच्छति / समागतश्च सन्मालोचनाद्यर्थमभ्युत्तिष्ठति / तत इदमाहअस्थिय सेसावसेस, जइ नत्थी मूलमस्थि तवच्छेया; थोवं जइ आवन्नो पडितप्पए साहुणा सुद्धो // 233 // पूर्वमिदं परिभावनीयं से तस्य आलोचनाद्यर्थमभ्युद्यतस्य सावशेषं चारित्रमस्ति / चशब्दात् किं वा नास्ति / ततो मूलं दातव्यम् / मूलं नाम सर्वपर्यायोच्छेदः / अथास्ति सावशेषं चारित्रं ततस्तस्मै तपो वा दीयतां च्छेदो वा / तत्र यदि स्तोकमापन्नो भवति स्तोकं नाम रात्रिंदिवपश्चकादारभ्य भिन्नमासं यावत्साधूनां च स प्रतितर्पितः / ततः स साधुतर्पणादेव शुद्ध इति प्रसादेन मुच्यते / मासाद्यापत्तौ त्वन्तिमपदहास इति गतं पार्श्वस्थसूत्रमिदानीं यथाच्छन्दसूत्रं वक्तव्यम् / तच्च प्रागेवोपदर्शितम् / इदानीं यथाच्छन्दस्वरूपं वर्णयतिउस्सुत्तमायरंतो उस्सूत्तं चेव पन्नविमाणो / एसो उ अहाछंदो इच्छाच्छंदो य एगठा // 234 // सूत्रादुर्ध्व उत्तीर्ण परिभ्रष्टमित्यर्थः। उत्सूत्रं तदाचरन् प्रतिसेवमानस्तदेव यः परेभ्यः प्रज्ञापयन् वर्तते एष यथाच्छन्दोऽमिधीयते / सम्प्रति च्छन्दः शब्दार्थ पर्यायेणव्याचष्टे / इच्छाच्छन्द इत्येकार्थः। किमुक्तं भवति? च्छन्दो नाम इच्छेति // 11 For Private and Personal Use Only