________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राइमणाइमं निसीह भिहडं च नो निसीहं च / साभावियं च निययं निकायण निमंतणे लहओ॥२३१॥ ___अभ्याहृतं द्विविधमाचीर्णमनाचीर्ण च / तत्राचीर्णमुपयोगसंभवे गृहत्रयमध्ये, ततः परमनाचीर्णमुपयोगासम्भवात् / | अनाचीर्णमपि द्विविधा-निशीथाभ्याहृतं नोनिसीथाभ्याहृतं च / तत्र यत्साधोरविदितमभ्याहृतं च तनिशीथाभ्याहृतमितरत् साधोविदितमानीतं नो निशीथाभ्याहृतं / एतानि कारणे निष्कारणे वा कथंचित् यथाभिगृहानो देशतः पार्श्वस्था, नियतं त्रिविधम् / तद्यथा-स्वाभाविकं, निकाचितं, निमन्त्रितं च। तत्र यनयतार्थमेव किन्तु य एव श्रमणोऽन्यो वा प्रथममागच्छति तस्मै यदग्रं पिण्डादि दीयते, तत्स्वाभाविकम् / यत्पुनभूतिकर्मादिकरणतश्चतुर्मासादिकं कालं यावत् प्रतिदिवसं निकाचितं निबद्धीकृतं गृह्यते तनिकाचितम् / यत्तु दायकेन निमन्त्रणापुरस्सरं प्रतिदिवां नियतं दीयते तन्निमन्त्रितम् / एतान्यपि गृवानो देशतः पार्श्वस्था, स्वाभाविकनियते निकाचने निमन्त्रणे च सर्वत्र प्रायश्चित्तं मासलघुः // अथ पार्श्वस्थो भूत्वा कथं संविनविहारमुपपद्यते येनोच्यते-'स इच्छेजा दोच्चं तमेव ठाणं उवसंपजित्ताणं विहरित्तए' इत्यादि, तत आहसंविग्न जणो जड्डो जह सुहितो सारणाए चइओउ / वच्चइ संभरमाणो तं चेव गणं पुणो एति // इह संविनो जनो जड इव हस्तीव वेदितव्यः। तथाहि-यथा हस्ती वनादानीतो घृतगुडादिभिः पुष्टिं नीतःस्मृत्वा वनं जगाम / है तच्च वनमनावृष्टिभावतोऽवारीभूतं / ततस्तत्र दुःखमनुभवत् घृतगुडादिकं स्मरति, स्मृत्वा च भूयो नगरमायाति / एवं सो For Private and Personal Use Only