________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भी व्यव तृतीयो विभाग हारपत्रस्य पीठिकाऽनंतरः। // 111 // पासोत्ति बंधणंति य एगटुं बंधहेयवो पासा / पासत्थिओ पासत्थो अन्नो वि य एस पज्जाओ // 229 // ___पाश इति वा बन्धनमिति वा एकार्थम् / इह ये मिथ्यात्वादयो बन्धहेतवस्ते पाशाइव पाशास्तेषु स्थितः पाशस्थः। पाशेषु | तिष्ठतीति पाशस्थ इति व्युत्पत्तेः / एषोऽन्यः खलु तृतीयः पर्यायः / उक्तास्त्रयोऽपि प्रकारास्तद्भणनाच भणितः सर्वतः पार्श्वस्थः / / इदानी देशतः पार्श्वस्थं व्याचिख्यासुना यदुक्तं ' सेजायर कुलादी' इति तद्व्याख्यानयति सेज्जायर कुल निस्सिय ठवण कुल पलोयणा अभिहडे य / पुचि पच्छा संथव निइ अग्गपिंड भोइ पासत्थो // 230 // यः शय्यातरपिण्डं भुते यानि च तस्य निश्रितान्याश्रितानि कुलानि तानि सततमुपजीवति / किमुक्तं भवति ? यानि * कुलानि तस्याग्रे सम्यक्त्वं प्रतिपन्नानि येषु प्रामेषु नगरेषु वा वसन्ति, तेषु गत्वा तेभ्यः आहारादिकमुत्पादयति / 'ठवण' त्ति स्थापनाकुलानि निर्विशति / अथवा यानि लोके गर्हितानि कुलानि तानि स्थापितान्युच्यन्ते / तेषामपरिभोग्यतया जनैः (जिनैः) स्थापितत्वात् तेभ्यः आहारादिकमुत्पादयति / पलोयण ति सङ्खयाः सततमाहारालोल्यतः प्रलोकना येन क्रियते शरीरस्य वा शुभवर्णादि निरीक्षणार्थ प्रलोकना। तथा अभ्याहृतानि आचीर्णाननाचीयोश्चाहारान् यो गृहाति / यस्तु पूर्वसंसक्तान् मातापित्रादीन् पश्चात्संस्तुतान् श्वश्रूप्रभृतीन् उपजीवति, यदि वा पूर्वपरिचितानप्याहारलोक्यनः पूर्वसंस्तुतान् पश्चात्संत्सुतान् वा करोति / तथा नित्यपिण्डमग्र पिण्डं च यो भुते स देशतः पार्श्वस्थः / / साम्प्रतमभ्याहृतपिण्डं नियतपिण्डं च व्याख्यानयति // 11 // For Private and Personal Use Only