________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie दसणनाणचरित्ते तवे य अत्ताहितोपवयणे य / तेसिं पासविहारी पासत्थं तं वियाणेहि // 227 / / दर्शनं सम्यक्त्वं, ज्ञानमाभिनिबोधिकादि, चारित्रमाश्रवनिरोधः, एतेषां समाहारो द्वन्द्वस्तस्मिन् / तथा तपसि बाह्याभ्यन्तररूपे द्वादशप्रकारे प्रवचने च द्वादशाङ्गलक्षणे यस्यात्मा हृतोप्रयुक्तो न सम्यग् योगवानित्यर्थः / यदि वा अहितस्तेषां विराधकत्वात् / किन्तु तेषां ज्ञानादीनां पार्श्वे तटे विहरतीत्येवं शीलो विहारी / न तेषु ज्ञानादिष्वन्तर्गत इत्यर्थः / स पार्श्वस्थ इति विजानीहि, ज्ञानादीनां पार्श्वे तिष्ठतीति व्युत्पत्तेः / इह यद्यपि यो दुष्करमाश्रवं निरोधं करोति स परमार्थतस्तपोयुक्त एवेति वचनतश्चारित्रग्रहणेन तपो, ज्ञानग्रहणेन च प्रवचनं गतं, तथापि तयो रुपादानं मोक्षं प्रति प्रधानांगता ख्यापनार्थ भवति च तपो मोक्षं प्रति प्रधानमङ्गं पूर्वसश्चितकर्मक्षपणत्वात् प्रवचनं च विधेयाविधेयोपदेशदायित्वादिति उक्त एकः प्रकारः // सम्प्रति द्वितीयप्रकारमाहदसणनाणचरित्ते सत्तो अच्छति तहिं न उजमति। एएणं पासत्थो, एसो अन्नो वि पजाओ // 228 // ज्ञानदर्शन चारित्रे यथोक्तरूपे यः स्वस्थोऽवतिष्ठते न पुनस्तत्र ज्ञानादौ यथा उद्यच्छति उद्यमं करोति / एतेन कारणेनैष पार्श्वस्थ उच्यते / प्रकर्षणासमन्तात् ज्ञानादिषु निरुद्यमतया स्वस्थः प्रास्वस्थ इति व्युत्पत्तेः / एष खलु अन्यो द्वितीयोऽपि पर्यायः / अपिशब्दः खन्वर्थे भिन्नक्रमश्च / स च यथास्थानं योजितः / उक्तो द्वितीयः प्रकारः // सम्प्रति तृतीयमाह For Private and Personal Use Only