________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 110 // तदेवमितरः पार्श्वस्थः साधूनामप्रतपयिता न च पापं कृत्वाऽनुतपति / यदपि च पापं कुरुते तदपि निर्दयः सन् , | साधूनां वावर्णभाषी, ततः सोऽन्यथा न शुद्ध्यतीति तस्मै परिपूर्ण प्रायश्चित्तं दीयते / द्वितीयस्तु साधुप्रतर्पणादिना बहुपापं क्षपयितवान् न च निर्दयः सन्नकरोत्पापमिति तस्य पदासेन भावयति-- थोवं भिन्नमासादिगाओयराइंदियाइ जा पंच। सेसेउपयं हसती परितप्पियएयरे सयलं // 225 // यदि नामस्तोकं भिन्नमासादिकादारभ्य यावत्पश्चरात्रिं दिवानि एतानि समुदितान्येकतरं वा प्रायश्चित्तमापनस्तदा स एवमेव मुच्यते / तस्य साधुप्रतर्पणादिना शुद्धीभूतत्वात् यदि पुनभिन्नमासस्योपरि प्रायश्चित्तमापनस्ततस्तस्मिन् शेपे प्रायश्चित्ते समापतिते सति पदमन्तिम प्रतर्पिते साधौ इसति / तस्य चान्तिमपदहासस्य भावना प्रागेव कृता / इतरस्मिन् साधूनामप्रतर्पिण्यवर्णवादिनि च सकलं परिपूर्ण प्रायश्चित्तं तस्यान्यथा शुद्ध्यभावात् / ततो न वयं रागद्वेषवन्तः / सम्प्रति पार्श्वस्थान् व्याख्यानयतिदुविहो खलु पासत्थो देसे सव्वे य होइ नायव्वो। सव्वे तिन्नि विकप्पा देसे सेज्जायर कुलादी // 226 // द्विविधो द्विप्रकारः, खलु निश्चितं पार्श्वस्थः / तद्यथा-देशे देशतः, सर्वस्मिन् सर्वतः पार्श्वस्थः; शब्दः संस्कारमाश्रित्य त्रयो विकल्पास्त्रयः प्रकारास्तद्यथा-पार्श्वस्थः प्रास्वस्थः पाशस्थश्च / एते स्वयमेवाग्रे वक्ष्यन्ते / देशे देशतः पावस्था, शय्यातरकुलादि प्रतिसेवमानः, 'तिधि विगप्पा' इत्युक्तं तत्र प्रथम प्रकारमाह--- // 110 // For Private and Personal Use Only