________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रीन् मासान् तर्हि एको मुच्यते द्वौ मासौ दीयते इत्यादि / अत्र परो रागद्वेषौ चोदयति, यथा यूयं रागद्वेषवन्तः / तथाहियेन साधूनां प्रतर्पितं तस्यपदमनुरागतोहासयथ, येन पुनर्न प्रतितर्पितं तस्य द्वेषतः सकलमपि प्रायश्चित्तं परिपूर्ण प्रयच्छथ / सूरिराह-दिठंतो पएणगतिलेहिं न वयं रागद्वेषवन्तस्तथा चात्र दृष्टान्त उपमापनकतिलैः। तथाहि पन्नकतिला नाम दुर्गन्धितिलाः ते स्थानद्वयेपि स्थापिताः। तत्रैके निम्बपुष्पैर्वासिताः, अपरे स्वाभाविका एव स्थिताः / तत्र ये निम्बपुष्पवासितास्तेषां दुरभिगन्धो बहुविधेनोपक्रमेणापनेतुं शक्यते / इतरेषा स्तोकेन एवामहापि ये स्वरूपतः पार्श्वस्था अपरं च साधुसामाचारीप्रद्वेषतो ग्लानादिप्रयोजनेषु साधूनामप्रतर्पिणोऽवर्णभाषिणश्च ते महता प्रायश्चितेन शुद्धिमासादयन्ति / ये तु पार्श्वस्था अपि कर्मलघुतया साधुसमाचारानुगताः साधून ग्लानादिप्रयोजनेषु प्रतर्पयन्ति श्लाघाकारिणश्च ते स्तोकापराधेन एवमेव शुद्धयन्ति, / महापराधिनोऽन्तिमपदहासतः स्तोकेन प्रायश्चित्तेनेति पन्नकतिलाश्चोपलक्षणं तेन सर्वाश्यसळशिरोगाभ्यां धौताधौतशारदपटाभ्यां पन्नकतिलेन चोपमा द्रष्टव्याः / तद्यथा सर्वमश्नातीत्येवं शीलःसर्वाशीबहुभक्षकोऽसर्वाशी अल्पभोजी, तत्र सर्वाशी रोगी कर्कशया क्रियया शुद्धिमासादयति / असर्वाशीस्तोकया क्रियया यथा वा द्वौ पटौ शारदो तत्रैको वाते वाति प्रतिदिवसं तेन वातेन धृन्यते अपरो न एवं तयोर्द्वयोरपि कालक्रमेण मलिनीभूतयोर्विधूतपटः स्तोकेनोपक्रमेण शुद्धिमासादयत्यविधूतपटो बडूनोपक्रमेण एवं यः पार्श्वस्थः साधूनामवर्णभाषी स महता प्रायश्चित्तेन शुद्धिं लभते / इति तस्मै परिपूर्ण प्रायश्चित्तं दीयते / इतरस्य तु साधूनां प्रतपणेन वर्णभापणेन च शुद्धिःसम्भवत्येतदर्थ हास इति साम्प्रतमेतदेव विवरीषुः परः प्रश्नं भावयति जो तुज्झं पडितप्पइ तस्सेगं ठाणगं तुहासेह। वड्डेह अप्पडितप्पे इइ रागद्दोलिया तुब्भे॥२१८।। For Private and Personal Use Only