________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः श्री व्यव- हारसूत्रस्य पीठिकाsनंतरः। // 107 // वक्षुरिदमाहतेसिं पायच्छित्तं वोच्छं ओहेय पयविभागे य / ठप्पंतु पयविभागे ओहेण इमं तु वोच्छामि // 21 // तेषां पार्श्वस्थादीनां स्वगुणमुपसम्पद्यमानानां प्रायश्चित्तं वक्ष्ये कथमित्याह-ओपेन सामान्येन पदविभागेन च कालादिविशेषेण, गाथायां सप्तमीतृतीयाथै / तत्र यत्पदविभागेन प्रायश्चित्तं वक्तव्यं तत् स्थाप्यं स्थापनीयं पश्चाद्वक्ष्यते इत्यर्थः / प्रोधेन सामान्येन कालादिविशेषरहितत्वेनेति भावः / / पुनरिदमनन्तरं वक्ष्यमाणतया प्रत्यक्षीभूतमिव वक्ष्यामि प्रतिज्ञातमेव निर्वाहयति-- ऊसववज्जकयाई, लहुओ-लहया अभिक्खगहणंमि / ऊसविकयाइ लहुधा गुरुगा य अभिक्खगहणंमि // 211 // उत्सववर्जमुत्सवाभावे यदि कदाचित् शय्यातरपिण्डादिकं गृहीतवान् / ततस्तस्य प्रायश्चित्तं लघुको मासः, तथाभीषणं गृहीतवान् तथा चत्वारो लघुमासाः, / प्रथोत्सवे कदाचित् शय्यातरपिण्डमग्रहीत् ततश्चत्वारो लघुका मासाः / अथामीणमुत्सवेषु गृहीतवान् ततश्चत्वारो गुरुका इहानुत्सवादुत्सवे गुरुकशोधिप्रदानकरणमने स्वयमेव वक्ष्यतीति नाभिधीयते // ____ अत्र कालविशेषो न कोऽपि निर्दिष्ट इतीदमोघेन प्रायश्चित्ताभिधानमिदानीं कालं सामान्यत आह-- चउछम्मासे वरिसे कयाइ लहुगुरुय तहय छग्गुरुगा। एएसुचेवभिक्खं चउ गुरु तह छग्गुरु च्छेदो॥२१२॥ // 107 // For Private and Personal Use Only