________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिषिद्धमतेषु पुनः पञ्चसु सूत्रेषु सर्वेषां व्यक्तानामव्यक्तानां च निर्गमनं प्रतिषिद्धमित्येष सम्बन्धः / __ अधुना अमूनि पश्चापि सूत्राणि यद्विषयाणि तानि क्रमेण विशेषप्रतिपादनार्थमुपन्यस्यतिपासस्थ ग्रहाच्छंदो कुसील उसन्नमेव संसत्तो। एएसिं नाणत्तं वोच्छामि अहाणुपुवीए / ज्ञानादीनां पार्वे तिष्ठतीति पार्श्वस्थः, पाशस्थ इति संस्कारस्तत्रेयं व्युत्पत्तिः मिथ्यात्वादयो बन्धहेतवः पाशास्तेषु तिष्ठतीति पाशस्थः / अहाच्छंदो इति यथाच्छन्दोऽभिप्राय इच्छा तथैवागमनिरपेक्षं यो वर्तते स यथाच्छन्दः / कुत्सितं शीलमस्येति कुशीलः सामाचार्यासेवने, अवसीदति स्मेत्यवसन्नः / तथा संसक्त इव संसक्तः पार्श्वस्थादिकं तपस्विनां चासाद्य सन्निहितदोषगुण इत्यर्थः / इदं तु व्युत्पत्तिमात्र स्थानाशून्यार्थमुक्तं / यावता भाष्यकृदेव स्वयमग्रे व्युत्पत्तिममीषा शब्दाना करिप्यति / एएसिमित्यादि एतेषां पार्श्वस्थादीनामनुष्ठानभेदतो यन्नानात्वं तदहं यथानुपूर्ध्या यथोक्तक्रमेण वक्ष्यामि / अथ कथं पार्श्वस्थादयो जायन्ते तत आह गच्छंमि केइ पुरिसा, सउणी जह पंजरंतरनिरुद्धा / सारणपंजरचइया पासस्थगयादि विहरंति // ___ यथा शकुनिः शकुनिकापञ्जरान्तरनिरुद्धा महता कष्टेन वर्तते, तथा केचित् गुरुकर्माणः पुरुषागच्छे स्मारणचोदनादि महत्कष्टमभिमन्यमानाः कष्टेन वर्तन्ते, / ततः स्मारणलक्षणपञ्जरत्याजिताः सन्तः पार्श्वस्थगतादयः आदिशब्दाद्यथाच्छन्दो गतादिपरिग्रहः विहरन्त्यवतिष्ठन्ते विहृत्य च केचिद्भूयः स्वगुणमुपसम्पद्यते / तेषां चोपसम्पद्यमानानां प्रायश्चित्तदेयमतस्तद्वि For Private and Personal Use Only