________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 106 // प्रकटं निन्दनं सा खिसा यथाधिक् तव भ्रष्टप्रतिज्ञस्येत्यादि स प्रामोति प्रायश्चित्तं गुरुकान् अनुद्घातान् चतुरो मासान् / सूत्रम् भिक्खू वा गणाओ अवक्कम्म पासत्थविहारे विहरेजा सेयइच्छेजा दोचंपितमेवगणं उवसंपजित्ताणं विहरित्तए अस्थिया इत्थ से पुणो आलोएज्जा, पुणोपडिक्कमेजा, पुणोछेद परिहारस्स उवट्ठाइजा, एवंमहाछंदो कुसीलो ओसम्मो संसत्तो // सू. 26 सूत्रम् / 'भिक्खूय गणातो अवकम्मेत्यादि भिक्षुरुक्तशब्दार्थः वा वाक्यभेदे गणादपक्रम्य निःसृत्य पार्श्वेस्थविहारं पार्श्वस्थचर्या प्रतिपद्येत स भूयोऽपि भावपरावृत्या इच्छेद्वितीयमपि वारं गणमुपसम्पद्य विहाँ अस्थिया इत्थेत्ति अस्ति चात्र कश्चित् यः शेषे चारित्रस्य सति पुनरालोचयेत्, पुनः प्रतिकामेत् पुन छेदं परिहारं वा यः प्रायश्चित्तमापनस्तस्य च्छेदस्य परिहारस्य वा प्रतिपत्तयेऽम्युतिष्ठेत् / यः पुनः सर्वथापगते चारित्रं पुनरालोचयेत् पुनःप्रतिकामेत् स मूलमापन इति मूलस्य प्रतिपत्तयेऽभ्युतिष्ठेत् / इदं सूत्रं पार्श्वस्थविषय एवमुक्तमेवं यथाच्छंदसि कुशीले अवसने संसक्ते च वक्तव्यम् / तद्यथा "भिक्खू य गणातो अवकम्म अहाच्छंदविहारं विहरेजा / सो इच्छे दोच्चपि पुणोपडिक्कमेजा पुणोछेयपरिहारस्सु उवट्ठाइजा तहेवगणं उवसंपजित्ताणं विहरित्तए अस्थिया इच्छसेसे पुणो आलोएजा। अथामीषां सूत्राणां पूर्वसूत्रत्रयेण सह का सम्बन्ध इत्यत आहवुत्ता वितिगमणा इयाणिमवितिन्निमिग्गमे सुत्ता / पडिसिद्धिमवत्तस्स इमेसु सव्वेसु पडिसिद्धं // पूर्वमुक्ता अभिशय्यादिषु वितीर्णगमनाः वितीर्णमनुज्ञातं गमनं येषां ते तथा इदानीं पुनः सूत्राणि अवितीर्णेऽननुज्ञाते निर्गमे यदिवा प्राक् एकाकिविहार प्रतिमाविषयेण सूत्रत्रयेणाव्यक्तस्य श्रुतेन वयसा परिकर्मणया वा प्राप्तस्य निर्गमणं // 10 // For Private and Personal Use Only