________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्यादिसूत्रं व्याख्यानयति सेसम्मि चरित्तस्य। लोयणया पुणो पडिक्कमणं / च्छेदं परिहारं वा जं श्रावन्नो तयं पावे // यद्यपि प्रतिमाप्रतिपन्नस्य चारित्रविराधनासीत् तथापि न चारित्रं सर्वथापगतं किन्तु शेषोऽवतिष्ठते / व्यवहारनयमतेन देशभङ्गेन सर्वभङ्गाभावात् ततः शेषेचारित्रस्य सति पुनरालोचना पुनः प्रतिक्रमणं नतु पुनः शब्दो द्वितीयवारापेक्षः / तथा च लोके वक्तारः कृतमिदमेकवारमिदानी पुनः क्रियते इति / अत्र तु प्रथममेवालोचनं प्रथममेव च प्रतिक्रमणं ततः कथं पुनः शब्दोपपत्तिः ? उच्यते-यत्रैव स्थाने सोऽकृत्यं कृतवान् / तत्रैव स इत्थमचिन्तयत् आलोचयामि प्रतिक्रमामि च तावदहमेतस्या कृत्यस्य पश्चाद्गुरुसमक्षं भूय आलोचयिष्यामि च एवं च चिन्तयित्वा तथैव आकार्षीत् ततो घटते पुनः शब्दोपादानमिति यदि वा यदेव तदानींहा दुष्ठुकृतं दुष्ठुकारितमित्यादि चिन्तनं तदेव च प्रतिक्रमणमिति भवति / तदपेक्षया | पुनः शब्दोपपत्तिः यदपि च च्छेदं परिहारं वा प्रायश्चिचमापनस्तत्प्रामोति प्रतिपद्यते / सम्प्रति यदुक्तं / नियट्टखिसंतणुग्घाया इति तद्व्याख्यानयति-- एवं सुभपरिणामं पुणोवि गच्छंति तं पडिनियत्तं / जे हीलइ खिंसइ वा पावति गुरुए चउम्मासे // | एवं पुनरालोचना प्रतिपत्यादिप्रकारेण शुभपरिणामं शोभनाध्यवसायं पुनरपि गच्छे प्रतिनिवृत्तं सन्त यो हीलयति खिसयति वा, तत्र यदस्यया निन्दनं तत् हीलनं यथा समाप्ति नीताऽनेन प्रतिमासांप्रतमागतो वर्तते ततः क्रियतामस्य पूजेति यत्पुनः For Private and Personal Use Only