SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव तृतीयो विभाग: हारसूत्रस्य पीठिका नंतरः। // 10 // यन्मयोक्तं संयत्याः प्रत्यासनात्प्रदेशात्प्रतिनिवृत्तस्य भूयान् दण्डो दूरात् प्रतिनिवृत्तस्याल्पतर इति ततः केन कारणेन युष्मभ्यं न रोचते / मूरिराह__अक्खयदेह नियत्तं बहुदुक्खभयेण जसमाणेह / एयमहं न रोयति को ते विसेसो भवे एत्थ // यद्वहु दुःखभयेन परबलेन सह युध्यमानस्य प्रभूतदुःखं मरणपर्यवसानं भविष्यतीति भयेनाक्षतदेहः सन् निवृत्तः प्रतिनिवृत्तोऽक्षतदेहनिवृत्तस्तं समानय एतन्मह्यं न रोचते विषमत्वात्तथाहि सर्वथा अत्राक्षतचारित्रः प्रतिनिवतेते किन्तु क्षतचारित्रस्ततोऽप्यत्र स उपन्यसनीयो योऽधिकृतदाटोतिकेन सहसमानतामवलम्बते, न चासौ तथेति पर आह-यदेष दृष्टान्तस्तव न भासते ततः कोऽत्रासिन् विचारे तव विशेषो भवेत् विशिष्टो दृष्टान्तः स्यात्मरिराह एसेव य दिठंतो पुररोहे जत्थ वारियं रण्णा / माणीह तत्थनियंते दूरासन्ने य नाणत्ता // एष एव भवदुपन्यस्तो दृष्टान्तः पुररोधे सति द्रष्टव्यो यत्र पुररोधे राज्ञा वारितं यथा मा कोऽपि पुराभिर्यासीदिति * तत्रैवं निवारिते तत्र निर्गच्छति / दूरासनाच्च प्रतिनिवृत्ते यथा नानात्वमपराधविषयं तदिहापि योजनीयम् / तद्यथा-परबलेन नगररोघे कृते राज्ञा पटहेन घोषितं यथा यो नगरान्निर्यास्वति स मयानिर्ग्राह्य इति / ततः कोऽपि निर्गत्य भासनात्प्रतिनिवृत्तोऽपरो दात्तत्र यथैतयोरासन्नात्प्रतिनिवृत्तस्याम्पतरो राज्ञा दण्डो दात्प्रतिनिवृत्तस्य बहुतर एवं यो दात्संयत्याः प्रतिनिवृत्तस्तस्य गरीयान् भावदोष इति चतुर्गुरुकमासनात्प्रतिनिवृत्तस्य त्वन्पीयान् भावदोष इति चतुर्लघु / सम्प्रति 'पुणो आलोएजा' का॥१०॥ For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy