________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandie आसन्नातो लहयो दूरनियत्तस्स गुरुत्तरो दंडो। चोयगसंगामदुगं नियखिसंत अणुग्घाया // संयत्या आसनात्प्रदेशानिवृत्ते लघुको दण्डः चत्वारो लघुमासा दण्ड इत्यर्थः / दूरानिवृत्तस्य गुरुतरश्चत्वारो गुरुमासाः; एवमाचार्येण प्ररूपिते चोदकः प्रश्नयति / तत्र चोदकाचार्यनिदर्शनं सङ्ग्रामद्विकं निदर्शनं, तं च भग्नप्रतिज्ञं निवृत्तं प्रत्यागतं सन्तं ये खिसंतित्ति हीलयन्ति तेषामुद्घाताश्चत्वारो गुरुका मासाः प्रायश्चित्तमित्युत्तरार्ध संक्षेपार्थः / इदानीमेतदेवोत्तरार्ध विवरीषुः प्रथमतश्चोदकवचनं भावयति / दिटुं लोए बालोयभंगि वणिएय अवणियनियत्तो / अवराहे नाणत्तं न रोयए केण यं तुझे // प्रागुक्ताचार्य प्ररूपणानन्तरं परः प्रश्नयति / ननु संयत्याः प्रत्यासनात्प्रदेशात्प्रतिनिवृत्तस्य गुरुतरेण दण्डेन भवितव्यम् / दूरात्प्रतिनिवृत्तस्य लघुतरेण, न चैतदनुपपन्नं यतो लोकेऽपि दृष्टं तथा टेकस्य राज्ञो नगरम परो राजा वेष्टयितु कामः समागच्छति / तं च समागच्छन्तं श्रुत्वा नगरस्वामी भटान् प्रेषयति / यथा यूयं तत्र गत्वा युध्यध्वामिति / तत्रैको भटः परबल मिति प्रभूतमालोक्य दर्शनमात्र एव भग्नः प्रत्यागतोऽन्यो युध्ध्वा चिरकालं सजातव्रणो भग्नः समागतः / अपरः परवलेन सहायुध्वा सञ्जातव्रण एव भग्नः प्रतिनिवृत्तः / तत्रैषां भटानां मध्ये यः पालोकभङ्गी दर्शनमात्रतो भग्नः प्रतिनिवृत्तस्तस्य बहुतरोऽपराधः / यः पुनः सञ्जाताव्रणो यश्चावणित एतौ द्वावपि भग्नौ सन्तौ प्रतिनिवृत्तावित्यपराधिनी केवलमालोकभनयपेक्षयाऽल्पतरापराधौ, दूरात्प्रतिनिवृत्तत्वाद्देवलोकेद्गसन्नभेदेनापराधे 'नानात्वमिदमुपलब्धम्। तत एव दृष्टान्तबलेन For Private and Personal use only