SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। नंतरः श्रीव्यव- तदाच्छेदः करणे प्रति सेवाकरणे मूलं एतत्प्रायश्चित्तविधानं भिक्षोरुक्तम् / हारसूत्रस्य। गणावच्छेद्याचार्ययोः पुनरिदमाह-सत्तठत्ति, अत्र पूरण प्रत्ययांतस्य लोपः प्राकृतत्वात् / ततोऽयमर्थः गणावच्छेदिन: पीठिकाना प्रायश्चित्तविधानं द्वितीयाच्चतुर्लघुकादारब्धं सप्तममनवस्थाप्यं प्रायश्चितं यावदवसेयमाचार्यस्य प्रथमाचतुर्गुरुकादारब्धमष्टमं पाराश्चितं प्रायश्चित्तं यावदेतदेवाह लहुया य दोसु दोसु य गुरुगाच्छम्मास लहु गुरुच्छेदो। भिक्खु गणायरियाणं मूल अणवठपारंची। // 10 // भिक्षुगणावच्छेद्याचार्याणां यथाक्रमं प्रायश्चित्तविधानमूलमनवस्थाप्यं पाराश्चितं च, यावद्यथा भिक्षोद्वयोः प्रतीक्षणेऽवलोकते च चत्वारो मासा लघवः द्वयोनिवर्तने कण्टकमार्गणे चत्वारो गुरुकाः, छम्मासलहुगुरुत्ति अत्र दोसु इति प्रत्येकमभिसम्बध्यते / द्वयोः कण्टकग्रहणे पादग्रहणे च षण्मासा लघवः द्वयोः पादोत्क्षेपे सागारिकदर्शने च षट् गुरु, प्रतिसेवाभिप्राये च्छेदः प्रतिसेवाकरणे मूलं, गणावच्छेदिनो यथाऽनवस्थाप्यं पर्यन्ते भवति तथा वक्तव्यं तच्चैवं गणावच्छेदिनः प्रतीक्षणे चत्वारो लघुकाः अवलोकने चत्वारो गुरवः निवर्तने चत्वारो गुरवः, कण्टकमार्गणे षट् लघु, कण्टकग्रहणे षट् लघु, संयतीपादग्रहणे पट् गुरु, पादोत्पाटने च्छेदः, मागारिकदर्शने च्छेदः / प्रतिसेवाभिप्राये मूलं, प्रतिसेवाकरणेऽनवस्थाप्यं, आचार्यस्य यथा पाराश्चितमन्ते भवति तथा वक्तव्यम् / तच्चैवमाचार्यस्य प्रतीक्षणे चतुर्गुरु अवलोकने चतुर्गुरुनिवर्तने कण्टकमार्गणे च षट् लघु, कण्टकग्रहणे पादग्रहणे च षट् गुरु, पादोत्पाटने च्छेदः, सागारिकदर्शने मूलं, प्रतिसेवाभिप्रायेऽनवस्थाप्यं, प्रतिसेवाकरणे पाराश्चितमिति / सम्प्रति यदुक्तं 'गुरुगानिवत्तमाणे ' इति तत्र विशेषमाह // 104 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy