________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथवा सा देवता संयतीवेषं कृत्वा कायोत्सर्गे समाप्ते विहारक्रमं प्रति प्रस्थितमव्यक्तं साधुप्रतिमा प्रतिपनं ब्रूयात्-'अहो ज्येष्ठार्य अहमपि युष्माभिः समं व्रजामि, तत्प्रतीक्षस्व तावद्यावत् पादलग्नं कण्टकमपनयामि इति / एवं तया देवतया कृतसंयतीवेषया सकरुणमालप्तः स वराकः शैक्षः शैक्षत्वादेवास्थिरभावो मुह्यति मोहमुपगच्छति मुह्यं च यदि प्रतीक्षणादि करोति तथा प्रायश्चितं तदेवाह अच्छति अवलोएति य लहुगा पुण कंटउमेलगत्ति / गुरुगा नियत्तमाणे तह कंटगमग्गणे चेव // ___ सत्र यदि कण्टको मे लग्न इति वचः श्रुत्वा, अच्छतित्ति प्रतीक्षते तदा प्रायश्चित्तं लघुकाश्चत्वारो लघु मासाः / अथापि तत्संमुखमवलोकते तदापि चतुर्लघुः यदिपुनरासनान्निवते तदाचतुर्लघु एतच्च आसनातो लहुतो इति वक्ष्यमाणग्रन्थादवसितम् / अथ दुरात्तदा तस्मिन् दूरान्निवर्तमाने चत्वारो गुरुका गुरुमासास्तथा कण्टकमार्गणे चेवेत्ति यदि कण्टकमपनेण्यामीति तत्पादलग्नं कण्टकं मृगयते, तदापि प्रायश्चित्तं चतुर्गुरु / कंटकपायग्गहणे छल्लहु छग्गुरुग चलणमुक्खेवे / दिट्ट् मिच्छग्गुरुगा परिणयकरणेय सत्तट्ठा // कण्टकं पादगतं यदि गृहाति तदा प्रायश्चित्तं षद्लघवो लघुमासाः अथ तस्याः संयत्याः पादं गृहाति कण्टकोद्धरणाय तदापि षट् लघु, यदि पुनश्चरणं पादमुत्क्षिपति उत्पाटयति कण्टकोद्धरणाय तथा षद् गुरु, पादे उत्पाटिते सति यदि सागारिकं पश्यति सदा तस्मिन्नपि दृष्टे षट् गुरु, सागारिकदर्शनानन्तरं यदि भावः परिणतो भवति यदाहं प्रतिसेवे इति For Private and Personal Use Only