________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie तृतीयो विभागः। हारसूत्रस्य पीठिकाऽ नंतरः // 13 // स्थितस्य साधोत्समीपदेशे स्थिता त्रुवते / यथा यदौपयाचितकमाया भट्टारिकायाः समीपे याचितं यथा यद्यनुकं प्रयोजनमस्माकं सेत्स्यति / ततो महापशुं प्रयच्छाम इति तदिदानी समृद्धं निष्पन्नमित्यर्थः। ततः सद्य इदानीं पशुं दमः महापशुर्नामपुरुषः / ततो गवेषयत अत्रैव कश्चित् मनुष्यं गता गवेषणाय मनुष्याः, दृष्टः स प्रतिमा प्रतिपनो दृष्ट्वा च कथितं मृलपुरुषाय यथैव श्रमणो दीयतामार्यायै इति एवमुक्ते यदि भयेन वार्ड् करोति, देशीवचनमेतत् नशनं करोति नश्यतीत्यर्थः / यदि वा श्रमणोऽहमिति ब्रूते तदा प्रायश्चितं चतुर्लघु / उदगभएण पलायइ पवइ रुक्खं दुरुहए सहसा / एमेव सेसएसु वि भएसु पडिकारमो कुणति // सोऽव्यक्तः प्रतिमा प्रतिपन्नः कायोत्सर्गेण स्थित उदकप्रवाहे नद्यादिगते समागच्छति यादकभयेन पलायते, यदि | वा प्लवते तरति, अथवा सहसा वृक्षमारोहति, तदा तस्य प्रायश्चितं चतुर्लघु, / एवमेव अनेनैव प्रकारेण शेषेष्वप्यग्न्यादिसमुत्थेषु भयेषु समुत्थितेषु यदि प्रतिकार करोति, तदा चतुर्लघु; / इयमत्र भावना-अग्नौ प्रसर्पति स वा समागच्छति यदि पलायते अन्यं वा प्रतीकारं करोति, तदा प्रायश्चितं प्रत्येकं चतुर्लघु, / एतानि च पुरुषमेघोदकाग्निहस्तिसर्परूपाणि देवताकृतान्यपि संभाव्यन्ते स्वाभाविकानि च तत्र यदि देवताकृतानि स्वाभाविकानि सर्वेष्वप्येतेषु प्रत्येक चतुर्लघुः / साम्प्रतमत्थण मालोयणेत्यादि व्याचिख्यासुराहजेट्टज पडिच्छाहिए अहं तुम्भेहिं समंवच्चामि / इति सकलुणमालतो मुज्झति सेहो अथिरभावे // // 10 // For Private and Personal Use Only