SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbabirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग: श्री व्यवहारसूत्रस्य पीठिकानंतर। // 10 // दरे तावत्प्रतिमाः / किमुक्तं भवति तद्विषयमिदं सूत्रत्रिकं तस्य प्रतिमा प्रतिपत्तव्यास्तावत् दूरे विशिष्टश्रुतवयोभ्याम प्राप्ततयातत्समाचारीपरिज्ञानस्य परिकर्मणायाश्चाभावात् गच्छविहारे गच्छसमाचार्यामपि सोऽधिकृतसूत्रत्रयविषये निर्मातो न परिनिष्ठामुपगतः स आचार्येण वार्यते / स च वार्यमाणोऽपि यदा वगच्छानिर्गत्य यदि कथमपि बुद्धिपरावर्तनेनासन्नाद्विनिवर्तते / ततस्तस्य प्रायश्चित्तं लघुको मासः दूरे दूराद्विनिवर्तते गुरुको मासः / अथ न निवर्तते तत आहसच्छंदो सो गच्छा निग्गंतूणं ठितो उ सुप्मघरं / सुतत्थ सुप्ताहियो संभरइ इमेसि मेगागी // स्वमात्मीयंच्छन्दोऽभिप्रायो यस्य स स्वच्छन्दः सन् गच्छाद्विनिर्गत्य शून्यगृहे उपलक्षणमेतत् श्मशाने वा वृक्षमूले वा देवकुलसमीपे वा कायोत्सर्गेण स्थितः / स च सूत्रमर्थ वा न किमपि जानाति यच्चिन्तयति / ततः सूत्रार्थशून्यहृदय एकाकी | सन् एषां वक्ष्यमाणानामाचार्यादीनां स्मरति तानेवाहपायरियवसभसंघाड-एय कंदप्पमासियं लहुयं / एगाणियत्तसुमघरे अत्थमिए पत्थरे गुरुगा // आचार्यों गच्छाधिपतिस्तं वा यदि स्मरति यदि वा वृषभमथवा संघाटिक, कंदप्पत्ति अत्र विभक्तिलोपो मत्वर्थीयलोपश्च प्राकृतत्वात् / यैर्यैर्वा साधुभिः समं गच्छे वसन् कन्दर्प हासंचसूर्यादिरूपं कृतवान् कन्दर्पिकान् स्मरति / तदा प्रायश्चित्तं मासिकं लघुकं तथा एगाणियत्त एकाकी सन् शून्यगृहे उपलक्षणमेतत् श्मशानादौ वा दिवसे बिभेति तदा चत्वारो लघु| मासाः, यदि पुनरस्तमिते सूर्ये भयं गृहन् प्रस्तरान् पाषाणान् च्छुयति तदा चतुगुरुकाः। // 10 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy