________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्गेण अन्यथा वावतिष्ठते / न पुनः पदमात्रमुत्क्षिपति / गतंनिक्षेपद्वारमधुना आपनलाभगमनद्वाराण्याह मणसा वि अणुग्घाया सच्चित्ते चेव कुणति उवदेसं / अच्चित्तजोगगहणं भत्तं पंथो य तइयाए॥ ____ मनसा वि आस्ता वाचा कायेन चेत्यपि शब्दार्थः / यानि प्रायश्चित्तानि आपद्यते तानि सर्वाण्यपि तस्यानुद्घातानि गुरूणि भवन्ति / गतमापनद्वारम् / लाभद्वारमाह-सचित्ते चेत्यादि लाभो द्विविध:-सचित्तस्य अचित्तस्य च तत्र सचित्तस्य प्रव्रजितुकामस्य मनुष्यस्य, अचित्तस्य भक्तपानादेः। तत्र यदा सचित्तस्य लाभ उपस्थितो ज्ञायते / यथा नूनमेष प्रव्रजिष्यति नतु स्थास्यति तदा तस्मिन् सचित्ते प्रवजितुमुपसम्पद्यमानतया संभाविते उपदेशमेव करोति / न तु तं प्रव्राजयति. तस्य तामबस्थामुपगतस्य प्रव्रज्यादानानत्वात् / एवकारो भिन्नक्रमः / स च यथास्थानं योजितः / अचित्तस्य पुनर्योग्यस्य भक्तस्य पानस्य वाग्रहणं करोति / गतं लाभद्वारं / गमनद्वारमाह-भक्तं भिक्षाचायों पन्थाः पथि विहारक्रमकरणाय गमनं, तृतीयस्यां पौरुष्या नान्यदा तथा कल्पत्वात् / तदेवं भिक्षौ प्रतिमाप्रतिपत्तिविधिरुक्तः / सम्प्रति गणावच्छेद्यादिषु तामेवाहएमेव गणायरिए गणनिक्खिवणम्मि नवरनाणत्तं। पुठवोवहिस्स अहवा निक्खिवणमपुव्वगहणं तु // ___ एवमेव अनेनैव भिक्षुगतेन प्रकारेण गणित्ति गणावच्छेदिनि, / आयरिए इति आचार्योपाध्याये वक्तव्यम् / किमुक्तं | भवति / यथा भिक्षौ प्रतिमाप्रतिपत्तुं प्रतिपन्ने विधिरुक्तस्तथा गणावच्छेदिनि आचार्योपाध्याये च प्रतिपत्तव्यः / तथा च सूत्रकारोऽपि तत्सूत्रे अतिशत आह-एव गणावच्छेए एवं आयरितोवज्झाए एवं भिक्षुगतेन सूत्रप्रकारेण गणावच्छेद एवमेव For Private and Personal Use Only