________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका तृतीयो विभागः। नंतरः। // 8 // गतं संयमद्वारमधुना भक्तद्वारमुपधिद्वारं चाहपग्गहियमलेवकडं भत्तजहरणेण नवविहो उवही। पाउरणवजियस्स उ इयरस्स दसा वि जा बारा॥ भक्तमुपलक्षणमेतत् , पानकं च अलेपकृत् कल्पते / तथाप्रगृहीतं इहालेपद्भिक्षाया उपरितनानां तिसृणां भिक्षाणां मध्यमा मध्यमग्रहणे चाद्यंतयोरपि ग्रहणं / ततोऽयमर्थः-सप्तसु पिण्डैषणासु मध्ये उपरितनीनां चतसृणामन्यतमस्याः पिएडैषणाया अभिग्रहः / श्राद्यानां तिमृणां पिण्डैषणानां प्रतिषेधः / एतच्च चूर्णिकारोपदेशात् विवृतं / तथा चाह चूर्णिकृत् | उपरिल्ला हिं चउहि, पिण्डेसणाहिं अन्नयरीए / अभिग्गहो सेसासु तिसु अग्गहो इति॥ गतं भक्तद्वारमुपधिद्वारमाह-जघन्येनोपधिर्नवविधः पात्रपात्रबन्धपात्रस्थापना पात्रकेसरिका पटलरजस्त्राणगोच्छकमुखवस्त्रिकारजोहरणलक्षण एप च नवविधो जघन्यत उपधिर्यः प्रावरणवीकृतप्रापरणपरिहाराभिग्रहस्तस्य बेदितव्यः / इतरस्य कृतप्रावरणपरिग्रहस्य दशादिको विज्ञेयो यावत् द्वादशविधः / तत्रैकसौत्रिककल्पपरिग्रहे दशविधः सौत्रिककल्पद्वयपरिग्रहे एकादशविधः कल्पत्रयस्यापि परिग्रहे द्वादशविधः / गतमुपधिद्वारं सम्प्रति निक्षेपद्वारमाहवसहीए निग्गमणं हिंण्डतो सव्वभंडमादाय / नयनिक्खिवइ जलाइसु जत्थ से सूरो वयति अत्थं॥ ___ वसतेः सकाशाद्यदि निर्गमनं भवति ततो नचनैवावधारणेनैव भाण्डमुपकरणमात्मीयवसतौ क्षिपति किन्तु सर्व भाण्डमादाय हिण्डते / हिण्डमानश्च यत्रैव जलादिषु जले स्थले ग्रामे नगरे कानने वने वा तस्य सूर्यो व्रजत्यस्तं तत्रैव कायोत्स // 68 // For Private and Personal Use Only