SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyanmandie गणं गच्छं, सह बालाद्यैस्ते सबालास्ते च ते वृद्धाश्च तैराकुलमामन्त्र्य समाहूय क्षमयति, यथा यदि किञ्चित् प्रमादतो मया न सुष्टु भवतां वर्तितं तदहं निःशन्यो निःकषायः क्षमयामीति, ये च पूर्वविरुद्धास्तानेवं स विशेषतः क्षमयति, / एवमुक्ते ये लघवस्ते आनन्दाश्रुपपातं कुर्वाणा भूमिगतशीर्षास्तं क्षमयन्ति / ये पुनः श्रुतपर्यायवृद्धाः तान् पादेषु पतित्वा स क्षमयति / उक्तं च-जइ किं चिपमाएणं न सुट्टभे वट्टियं मए पुचि / तं खामेमि अहं निस्सल्लो निक्कसाओय॥ आणंदअंसुपायं कुणमाणां तेवि भूमीगयसीसा / तं खामेति जहरिहं, जहारिहं खामिया तेण॥ एवं क्षमयतस्तस्य के गुणा इति चेत् ? उच्यते-निःशल्यता विनयप्रत्तिपतिर्मार्गस्य प्रकाशनं, अपहृतभारस्येव भारवाहस्य लघुता, एकाकित्वप्रतिपच्यभ्युपगमः / क्वचिदप्यप्रतिबद्धता एते प्रतिमासु प्रतिपद्यमानासु क्षमयतो गुणाः। उक्तं चःखामेतस्स गुणा खलु निसल्लयविणयदीवणामग्गे / लाघवियंएगत्तं अप्पडिबद्धो य पडिमासु // गतमामंत्रणद्वारं / स एवं च क्षामयित्वा भावितात्मा तपोभावनाभावितान्तःउग्रतपः करोति, गतं तपोद्वारं / स च तथा प्रतिमा प्रतिपन्नः संयमे प्रथमे वा सामायिकलक्षणे वर्तते, द्वितीये वा च्छेदोपस्थापने / तत्र प्रथमे संयमे मध्यमतीर्थकरतीर्थेषु विदेहतीर्थकरतीर्थेषु च द्वितीये भरतादि प्रथमपश्चिमतीर्थकरतीर्थेषु, / एतच्च प्रतिपद्यमानकानधिकृत्योक्तं वेदितव्यम् / पूर्वप्रति| पन्नाः पुनः पश्चानां संयमानामन्यतमस्मिन् संयमे भवेयुः / उक्तं च पढमे वा बिइए वा पडिवज्जइ संजमम्मि पडिमातो। पुव्वपडिवन्नतो पुण, अन्नयरे संजमे होज्जा // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy