________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Shri Karlssagarsuri Gyarmandie तृतीयो विभागः श्री व्यवहारसूत्रस्य पीठिकानंतरः / // 7 // मासं द्वैमासिकी द्वौमासौ त्रैमासिकी त्रीन्मासान् एवं यावत् सप्तमासिकी सप्तमासान् एवं च मार्गशीर्षादारभ्य सप्तमासिक्या परिकर्मज्येष्टमासे समाप्तिमुपयाति, एतावानेव च जघन्यपदे उत्कृष्टकालः ततः परं प्रतिमानां मासैः परिमाणा संभवात् उत्कर्षमधिकृत्य पुनः परिकर्मणाकालो यावता कालेन परिपूर्णमागमोक्तेन प्रकारेण भावितो भवति, तावान् वेदितव्यः / तत्र जघन्यपदपरिकर्मणाकालमधिकृत्य कासांचित्प्रतिमानां तस्मिन्नेव वर्षे प्रतिपत्तिं कासाचिद्वर्षान्तरेऽभिधित्सुराह तव्वरिसे कासिंची पडिवत्ती अन्नहिं उवरिमाणं / प्राइमपइमस्सउ इच्छाए भावणा सेसे॥ कासांचिदाद्यानां प्रतिमानां तद्वर्षे एव यस्मिन् वर्षे परिकर्मसमारब्धवान् तस्मिन्नेव वर्षे प्रतिपत्तिरुपरितनीनामन्यस्मिन् वर्षे / इयमत्र भावना-मासिक्या द्वैमासिक्यास्त्रैमासिक्याश्चतुर्मासिक्या वा यस्मिन्नेव वर्षे परिकर्म तस्मिन्नेव वर्षे प्रतिपत्तिः। कस्मादिति चेत् ? परिकर्मणाकालस्य प्रतिमाकालस्य च आषाढमासपर्यन्तादर्वाक् लभ्यमानत्वात् पाश्चमासिकीषाएमासिकीसप्तमासिकीनामन्यस्मिन् वर्षे परिकर्म अन्यस्मिन् वर्षे प्रतिपत्तिर्मार्गशीर्षमासादारभ्य परिकर्मकालस्य प्रतिमाकालस्य चाषाढमासपर्यन्तादर्वाग लभ्यमानत्वादिति / येन च या प्रतिमा पूर्वमाचीर्णा तस्याचीर्णप्रतिमस्य तां प्रतिमांप्रति परिकर्मणा इच्छया यदीच्छा भवति ततः करोति नोचेन्नेति / किमुक्तं भवति ? चिरकालकृततया यदि गताभ्यासो भवति ततः करोति परिकर्मणामन्यथा नेति शेषे येन या प्रतिमा पूर्व नाचीर्णा तस्य तांप्रति नियमाद्भावना परिकर्मणा भवति साम्प्रतमामन्त्रणक्षामणतपः संयमद्वाराण्याह आमंतेऊण गणं स बालवुड्डाउलं खमावेत्ता। उग्गतवभावियप्पा संजमपढमे व बितिए वा॥ For Private and Personal Use Only