SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagersuri Gyanmandie परिचितश्रुतः सन् यावन्तं कालं परिकर्म करोति, तस्य तावत्कालो वक्तव्यः। तथा स्वगणामन्त्रणं वक्तव्यम् / तथा क्षामण तपः संयमः संहननं तथा भक्तमलेपकृदादि उपधिर्यावत्संख्याको जघन्यत उत्कर्षतश्च तावत्संख्याको वक्तव्यः / तथा निक्षेपउपधेर्नकर्तव्योवसतेरन्यत्र गच्छतेति वाच्यम् / तथा मनसापि यत्प्रायश्चित्तमापन्नो भवति तत्रतत्तदातव्यम् / तथा सचित्ताचित्तलाभो यथाकर्तव्यस्तथा भणनीयः। तथागमनंविहारस्तद्यस्यां पौरुष्यां कर्तव्यं / तथा कथयितव्यम् / एष द्वारगाथासंक्षेपार्थः / साम्प्रतमेनामेव व्याचिख्यासुः प्रथमतः परिचितकालद्वारमाह परिचियसुमो उ मग्गसिरमादि जा जेठ कुणति परिकम्मं / एसो च्चिय सो कालो, पुणरेइ गणं उवग्गंमि // परिचितमत्यन्तमभ्यस्तीकृतं श्रुतं येन स परिचितश्रुतः सन्मार्गशीर्षमासमादिं कृत्वा यावज्ज्येष्टामासस्तावत्परिकर्म करोति / एष एव तावत्प्रमाणं एवं साधोः प्रतिमाप्रतिपित्सोर्जघन्यपदे उत्कर्षतः कालः परिकर्मणायाः / एतावत्प्रमाणोत्कृष्टपरिकर्मणा कालानन्तरं च यद्यप्यव्यवधानेन प्रतिमा प्रतिपित्सुस्तथापि अग्रस्यमुखस्य वर्षाकालसम्बन्धिनः समीपमुपागमाषाढमास इत्यर्थः। तस्मिन् वर्षाकालयोग्यमुपधि ग्रहीतुं पुनरेत्यागच्छति स्वगणमिति एवं तावन्मुकुलितमुक्तमिदानीमेतदेव सविशेषतरं विवृणोति जो जति मासे काहिति पडिमं सो तत्तिए जहरण। कुणति मुणी परिकम्म, उक्कोसं भावितो जाव // ___ योनियतिमासान् प्रतिमा करिष्यति, स तति मासान् जघन्येन परिकर्म करोति, तद्यथा-मासिकी प्रतिमा प्रतिपित्सुरेक For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy