SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie श्री व्यव तृतीयो विभागः। हारसूत्रस्य पीठिकाsनंतरः। // 66 // भावियमभावियाणं गुणागुणमाइयत्तितो थेरा / वितरंति भावियाणं, दव्वादिसुभेयपडिवत्ती॥ मावितानां कृतकर्मणां गुणा यथा आपकस्य प्रभावितानामकृतपरिकर्मणानामगुणा यथा शैक्षकक्षपकस्य इति / एवं भावितानां गुणा गुणज्ञाः स्थविरा प्राचार्यास्तत आपृच्छानन्तरं यान् भावितान् सम्यग्जानन्ति तेषां भावितानां प्रतिमाप्रति-| पत्तिं वितरन्ति समनुजानन्ति, / एतेन आपुच्छणा विसजण इत्येतदव्याख्यातमधुना पडिवजण इत्येतद्व्याख्यानार्थमाहदव्वादिसुभेयपडिवत्ति द्रव्यादौ द्रव्यक्षेत्रकालभावेषु शुभेषु प्रशस्तेषु प्रतिमायाः प्रतिपत्तिर्भवति / कथमित्याहनिरुवसग्गनिमित्तं उवसग्गं वंदिऊण पायरिए / श्रावस्सियं तु काउं निरवेक्खो वच्चए भयवं // पूर्वसमस्तमपि स्वगच्छमागत्य यथाई चमयित्वा तदनन्तरमाचार्येण सकलस्वगच्छसमन्वितेन सकलसङ्घसमन्वितेन वा | सह निरुपसर्गनिमित्तमुपसर्गाभावेन सकलमपि प्रतिमानुष्ठानं निर्वहत्वित्येतन्निमित्तं कायोत्सर्ग करोति / तद्यथा-निरुवसग्गवत्तिाए सहाए मेहाए इत्यादि कायोत्सर्गानन्तरं च सूत्रोक्तविधिना प्रतिमा प्रतिपद्य आचार्यान्वंदते, वन्दित्वा च पावश्यकीं कृत्वा सभाण्डमात्रोपकरणः सिंहइवगुफातो निरपेक्षं पूर्वापेक्षाविरहितो भगवान् व्रजति / आचार्याश्च सकलसङ्घसमन्विताः पृष्टतोऽनुव्रजन्ति ते च तावद्गच्छन्ति यावद्रामस्य नगरस्य वा आघाटस्ततो निरीक्षमाणास्तावदासते यावद् दृष्टिपथातीतो भवति ततः सर्वे विनिवर्तन्ते / सम्प्रति वक्ष्यमाणवक्तव्यता संसूचनाय द्वारगाथामाहपरिचियकालामंतण खामण तव संजमे य संघयणा / भत्तोवहि निक्खेवे पावलो लाभगमणे य॥ For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy