________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // // आचार्याश्च उपाध्यायाश्च प्राचार्योपाध्यायं तस्मिन् सूत्रं वक्तव्यं / तद्यथा-- 'गणावच्छेए य वा गणातो अवकमएगल्लविहारपडिमं उपसंपजित्ताणं विहरेजा / सेइच्छेजा दोचंपि तमेव ठाणं उवसंपज्जित्ताणं विहरित्तए पुणो आलोएजा पुणो पडिक्कमेजा पुणो च्छेदस्स परिहारस्स वा उबट्ठावेजा / ततो आयरियातो वज्झाए य गणातो अवकम्म एगल्लविहारपडिम उवसंपञ्जिताणं विहरेजा' इत्यादि / व्याख्याप्यस्य सूत्रद्वयस्य तथैव / अथ किमविशेषेण भिक्षाविव प्रतिमाप्रतिपत्तिविधिरनुसरणीयो यदि वास्ति कश्चिद्विशेषस्तत आह-गणनिक्खेवणम्मीत्यादि नवरं नानात्वं भेदो गणनिक्षेपणे / इयमत्र भावना-गणावच्छेदी गणावच्छेदित्वं मुक्त्वा प्रतिमा प्रतिपद्यते, आचार्योऽन्यं गणधरं स्थापयित्वेति शेषः / अथवा इदं भिक्षुगतविधेर्गणावच्छेद्याचार्ययोविधिः नानात्वं गणावच्छेदी आचार्यों वा पूर्वगृहीतं उपधिं निक्षिप्य अन्यमुपधि प्रायोग्यमुत्पाद्य प्रतिमा प्रतिपद्यते / इत्युक्तः प्रतिमाप्रतिपत्तिविधिः / इदानीं समाप्तिविधिमाहतीरिय उब्भामणियोग दरिसणं साहु सन्नि वप्पाहे / दंडीय भोईय असती सावगसंघो व सकारं // तीरितायां समाप्तायां प्रतिमायां उत्प्राबल्येन भ्रमन्त्युद्धमाः भिक्षाचरास्तेषां नियोगो व्यापारो यत्र स उद्धामकनियोगो ग्रामस्तत्र दर्शनमात्मनः प्रकटनं करोति / ततः साधु संयतं संज्ञिनं वा सम्यग्दृष्टिं श्रावकं अप्पाहेत्ति संदेशयति / ततो दण्डिनो राज्ञो निवेदनं सत्कारं करोति, तदभावे भोजिकस्तस्याप्यभावे श्रावकवर्गस्तस्याप्यभावे सङ्घः साधुसाध्वीवर्गः। इयमत्र भावना-प्रतिमायां समाप्तायां यस्मिन् ग्रामे प्रत्यासने बहवो भिक्षाचराः साधवश्च समागच्छन्ति / तत्रागत्यात्मानं // 88 // For Private and Personal Use Only