________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च शदस्यानुक्तार्थ संसूचनाद्देशोनमिति द्रष्टव्यम् / तथा चोक्तम् आयारवत्थुतइयं जहन्नगं होइ नवमपुव्वस्स / तहियं कालन्नाणं दस उक्कोसाणि भिन्नाणि // संहननं पुनरादिमानां त्रयाणां संहननानां अन्यतमद्यदा तेनापृष्टं प्रतिपद्येऽहमिति तदा स स्थिरीकरणनिमित्तमिति वक्तव्यः / जइवि सि तीओवेओ आयपरे दुक्करं खुवेरग्गं / आपुच्छणेणु सजणपडिवजण गच्छ समवायं // यद्यप्यसि भवसि त्वं तया परिकर्मणया उपेतो युक्तः तथाप्यात्मपरे आत्मपरविषयेषु आत्मसमुत्थेषु परसमुस्थितेषु उभयसमुत्थेषु चेत्यर्थः / परीषहेष्विति गम्यते दुष्करं वैराग्यं रागनिग्रहणमुपलक्षणमेतद्वेषनिग्रहणं चेति ततो भूय आपृच्छना क्रियते / किं त्वया कृता सम्यक् परिकर्मणा किंवा नेति एवमापृच्छनायां कृतायां यदि सम्यक् परिकृतकर्मा ज्ञातो भवति ततस्तस्य विसर्जनमनुज्ञा तस्य क्रियते / अनुज्ञातश्च गच्छसमवायंकृत्वा प्रशस्तेषु द्रव्यक्षेत्रकालभावेषु प्रतिपादनं प्रतिमायाः प्रतिपतिं करोति / एष गाथासंक्षेपार्थः / साम्प्रतमेनामेव विवरीषुः पूवार्ध तावव्याख्यानयतिपरिकम्मितो वि वुच्चइ किमुय अपरिकम्ममंदपरिकम्मा / अायपरोभयदोसेसु, होइदुक्खंखुवेरग्गं // परिकर्मितोऽपि सुष्टु कृतपरिकर्मापि उच्यते आपृच्छयते इति तात्पर्यार्थः यथा त्वया कृता सत्परिकर्मणा किंवा न | * कृतेति, किमुत अकृतपरिकामन्दपरिकर्मा वा ते सुतरामाप्रच्छनीया इति भावः / कस्यादेवमाप्रच्छना क्रियते इति चेत् For Private and Personal Use Only