________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग: श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। प्रश // 14 // एकाकिविहरणमतिका एकाकिविहाराभिप्रायाः पर्याये गृहस्थपर्याये प्रव्रज्यापर्याये च श्रुते पूर्वगते शरीरे च कृतकरणाः कृताभ्यासास्तीव्रश्रद्धाकाः प्रवर्द्धमानश्रद्धाकाः ततस्तुलनानन्तरमाचार्यान् विज्ञपयन्ति, अत्र योऽनाचार्यः स प्राचार्य विनपयति / यथा-'भगवन् कृतपरिकाहमिच्छामि युष्माभिरनुज्ञात एकाकिविहारप्रतिमा प्रतिपत्तुमिति, यः पुनराचार्यः स स्वगच्छाय कथयति / यथा परिकर्मितोऽहमतः प्रतिपद्ये एकाकिविहारप्रतिमामिति यदुक्तं-परियागसुय सरीरे इति तव्याख्यानार्थमाहएगण तीस वीसा, कोडी पायारवत्थु दसमं च / संघयणं पुण आदिल्लगाण तिण्हं तु अण्णयरं // द्विविधः पर्यायो-गृहि पर्यायो व्रतपर्यायश्च / तत्र यो जन्मत आरभ्य पर्यायः सः गृहिपर्यायः / स च जघन्यत एकोनत्रिंशद्वर्षाणि कथमिति चेदुच्यते-इदं गर्भाष्टमवर्ष प्रव्रजितो विंशतिवर्षपर्यायस्य च दृष्टिवाद उद्दिष्टः, एकेनवर्षेण योगः समाप्तः / सर्वमीलनेन जातान्येकोनत्रिंशद्वर्षाणि, व्रतपर्यायप्रव्रज्याप्रतिपत्तेः आरभ्य स च जघन्यतो विंशतिवर्षाणि तावत् प्रमाणपर्यायस्यैव दृष्टिवादोद्देशभावात् / उत्कर्षतो जन्मतो पर्यायो व्रतपर्यायो वा देशोनापूर्वकोटी एतच्च पूर्वकोट्यायुष्के वेदितव्यं नान्यस्य / उक्तं चपडिमा पडिवालस्स उ गिहिपरियातो जहमउगुणतीसा। जतिपरियातो वीसा दोण्हवि उक्कोसदेसूणा॥ श्रुतं जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारनामकं वस्तु यावत्तत्र कालज्ञानस्याभिधानात् , उत्कर्षतो यावद्दशमं पूर्व, // 4 // For Private and Personal Use Only