SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -. + श्री व्यवहारसूत्रस्य पीठिका नंतर। // 42 // धृतिसमुत्साहवती समुत्साहवतितरा समुपजायते,। यथाप्रबलामपि परीपहचम्मतिसोपसर्गामपि लीलया योधयति / तथा चोक्तम्- || तृतीयो कामं तु सरीरबलं हायति तव भावणाएत्तस्स / देहावचएवि सत्ती जहहोइ धिती तहा जयति // विभागः। कसिणा परीसहचम् जइ उद्वेजाहि सोवसग्गावि / दुद्धरपहकरवेगा भयजणणी अप्पसत्ताणं / / धितिधणियबद्धकच्छो जो होइ अणाइलो तमव्वहितो। वलभावणाए धीरो संपुण्णमणोरहो होइ / अपि च सर्वा अपि भावना धृतिबलपुरस्सराः। ततो विशेषतो धृतिबलभावना भावषितव्या यथा प्रबलदिव्याद्युपसर्गोपनिपातेऽपि स्वकार्य साधयति / न खलु धृतेः किंचिदसाध्यमस्ति / आह च धितिबलपुरस्सरातो हवंति सव्वावि भावणातोय / तंतु न विजइ सद्धं जंधिइमंतो न साहेइ // ___ तच्च तपोबलप्रभृतिकं तपः प्रभृतीनामाभीक्ष्णे सेवनया भवति / अत्रोपमा दृष्टान्तो लंखकोमल्लश्च न केवलं लंखकोमल्लकश्च दृष्टान्तः / किन्वश्वकिशोरश्च / किं विशिष्ट इत्याह-योज्ञापितः परिकर्मित इत्यर्थः / एषां च दृष्टान्तानामियं भावना-लकोऽभ्यासं कुर्वन्नभ्यासप्रकर्षवशतो रञावपि नृत्यं करोति / मल्लोऽपि करणानि पूर्व दुःखेनाभ्यस्यन् कालेन कृताभ्यासः पश्चादयत्नेन प्रतिमल्लं जयति / अश्वकिशोरोऽपि हस्त्यादिम्यो भयं गृह्णान: दुःखं तत्पार्श्वे प्रथमतः स्थाप्यमानोऽभ्यासप्रकर्षवशतो न मनागपि तद्भयं करोति / तथा च सति संग्रामे हस्त्यादिभिश्च भवने (परिभवने )ऽपि न भङ्गमुपयाति / एषा दृष्टान्तभावना / दार्शन्तिकयोजनात्वियम् / एवमभीक्ष्णासेवनया तपसा न क्लाम्पति / सच्चावष्टम्भतो देवादिभ्यो न बिभेति, / / 82 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy